Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 2
________________ प्रस्तावः श्री पपातिकादीनां द्वादशानामुपगानां चतुःशरणादिकानां दशानां प्रकीर्णकानां च गाथाद्यनुक्रमः भोः परमपुरुषपरमेश्वरप्र गीताव्याबाधाविरुद्ध हितोपदेश मात्रप्रवचनप्रवणागमा मृतपानपुष्टान्तः करणाः कृतिनः ! सफलचन्त्वेतस्य शास्त्रस्य साचरणश्रद्धानवृद्धिक्रियाद्वारा ग्रहणेन मे परिश्रमलेशं, प्राक्तावत् १ नन्दी २ अनुयोगद्वार ३ आवश्यक४ ओघनियुक्ति ५ दशवैकालिक ६ पिण्डनियुक्ति ७ उत्तराध्ययन सूत्राणां गाथाकारादिक्रमविषयानुक्रमयुगलान्युन्मुद्राप्य निर्णयसागरमुद्रणालये श्रीमत्याऽऽगमोदय समित्या प्रतीनां सार्धद्वादशशती प्रचारिता, पण्यं च रूप्यकद्वयं स्थापितं पश्चात्तु श्रीमालवदेशान्तर्गतश्री ऋषभदेव जी केशरीमलेत्य भिधया श्वेतांबर संस्थया ८ आचारांग ९ सूत्रकृतांग १० स्थानांग ११ समवायांग १२ श्रीभगवत्यपराभिधव्याख्याप्रज्ञप्ति १३ ज्ञातधर्मकथा १४ उपासक १५ अन्तकृद्दशा १६ अनुत्तरौपपातिकदशा १७ विपाकश्रुत १८ प्रश्नव्याकरणांगसूत्राणां गाथाकारादिविषयानुक्रमयुगलानि श्रीइंद्रपुरीयश्रीजैनबंधुमुद्रणालयश्रीभावनगरीयमहोदय मुद्रणालयद्वारा मुद्रापयित्वा पंचशती पुस्तकानां प्रचारिता, पण्यं च चतुष्टयं रुप्यकाणां धृतं, ततः शेषाणां गाथाकारादिविषयानुक्रमयुगलानामुन्मुद्रणायायमुपक्रमः श्रीसुरतद्रं गीयजै नपुस्तकप्रचाराख्यसंस्थया क्रियते । प्रत्यश्चात्र सार्धद्विशतीमात्राः पण्यं च सार्धं रुप्यकचतुष्टयं ध्रियते । एतच्च वर्तमानयुगस्थितिप्रेक्षिणां सुज्ञानामवभासिष्यते ऽल्पतममेव । अत्र च १९ श्रीऔपपातिक२० श्रीराजमनीय २१ जीवाजीवाभिगम २२ प्रज्ञापना २३-२४ सूर्यचंद्रप्रज्ञप्तियुग्म २५ जंबूद्वीपप्रज्ञप्ति २६ उपांगपंचकमयनिरयावलिका २७ चतु णादिप्रकीर्णकदशकानां गाथाकाराद्यनुक्रमो लघुर्वृहन् विषयानुक्रमश्च समुन्मुद्रिताः, तत एतत्प्रयोगं यथाह कृत्वा सफलयन्तु सज्जना मे ज्ञानाभ्याससहाय मनोरथमित्याशासे । २००५ कार्तिकशुक्ला पूर्णिमा, सुरत. श्रीश्रमण संघसेवक आनन्दसागरः

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 182