Book Title: Tattvarthamuktakalap and Sarvarthasiddhi Author(s): Vedantacharya Publisher: Srinivasgopalacharya View full book textPage 8
________________ प्रमाणादिप्रपञ्चनपुरस्सरं स्थापयित्वा, ईश्वरसाधकानां नैयायिकाभिमतानां कार्यत्वादिहेतूनां प्रतिक्षेपपुरस्सरमीश्वरस्य शास्त्रैकसमधिगम्यत्वं संसाध्य, परब्रह्मणश्चिदचिदीश्वरविकारवत्त्व-सर्वानुवृत्तसन्मात्रत्व-स्वलीलार्थजीवादिपरिणामित्वोपाधिकजीवभाव-- वत्त्व-साविद्यत्वादिवादिमतानि प्रमाणयुक्तयादिप्रपञ्चनपूर्वकमपाकृत्य, भावरूपाज्ञानसाधकानि पञ्चपादिकाविवरणचित्सुखीयाधुपलभ्यमानान्यनुमानानि जगन्मिथ्यात्वसाधकदृश्यत्वाद्यनुमानानि च निराकृत्य, परब्रह्मणोऽप्राकृतनित्यविभूतिमत्त्वं शुभविग्रहवत्त्वं अस्त्रभूषणादिमत्त्वं परव्यूहादिरूपपञ्चकवत्वं पूर्णषाड्गुण्यवत्त्वं सर्वशत्वं सर्वशक्तित्वं इच्छावत्त्वं साध्यप्रसादादिमत्त्वं च साधयित्वा ईश्वरनिरूपणप्रयोजनाभिधानेनोपसंहृतमित्ययमत्र सामान्यतःप्रतिपाद्यप्रधानविषयसंग्रहः। विशेषतः प्रतिपाद्यविषयाश्च पृथगनुपदं प्रदर्शितायां विषयसूचन्यां द्रष्टव्या इति विस्तरभियाऽत्र विरम्यते । उपसंहारः १. संपुटेऽस्मिन्नादावेतत्संपुटगतनायकसरस्थप्रतिपाद्यविषया यथामति समग्राहिषत। २. तदनन्तरं सर्वार्थसिद्धिमूलभूततत्त्वमुक्ताकलापस्थनायकसरगतश्लोकाः तत्तयाख्यास्थलप्रदर्शनार्थ शिरसि तत्तत्पुटसंख्यानिर्देशपूर्वकं प्रेक्षावतां सुग्रहत्वाय पृथनिरदिश्यन्त। ३. तदन्वत्रत्यसर्वार्थ सिद्धौ तत्र तत्रोपलभ्यमानाः सर्वार्थसिद्धिकृत्प्रणीतास्संग्रहकारिकास्समुद्धत्य पृथक्प्रादर्शिषत। ४. ततः परमेतत्संपुटगततत्त्वमुक्ताकलापस्थनायकसरगतश्लोकार्धानां अकारादिवर्णक्रमेण सूचनी न्यवेशि। ५. तत उपरिष्टादेतत्संपुटदृश्यमानानां सर्वार्थसिद्धिकृत्प्रणीतसंग्रहकारिकार्धानामप्यकारादिवर्णक्रमेण सूचनी प्राकाशि। ६. तत ऊर्ध्वमेतत्संपुटगतसर्वार्थसिद्धयानन्ददायिन्योरल्लिखितानां प्रमाणवचनानां प्रायस्तत्तदाकरसूचनपूर्वकं तत्तदुल्लेखपुटसंख्यानिर्देशसहितं चाकारादिवर्णक्रमेण सूचन्याविष्कृता ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 426