Book Title: Tattvarthamuktakalap and Sarvarthasiddhi Author(s): Vedantacharya Publisher: Srinivasgopalacharya View full book textPage 6
________________ ॥ श्रीः॥ श्रीमते हयवदनपरब्रह्मणे नमः श्रीमते निगमान्तमहादेशिकाय नमः सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापस्थनायकसरस्य प्रस्तावना जयति निगमान्ततत्त्वं जयति च वैदान्तदेशिकी सूक्तिः। तदुभयमनन विभूम्ना तृप्तास्सन्तो जयन्तु भुवि विबुधाः ॥ अयि मान्या निखिलनिगमान्ततत्त्वनिर्धारणबद्धादरास्सुधीमणयः ! सुविदितमेवैतत्तत्रभवतां यत्किल कवितार्किकसिंहैः सर्वतन्त्रस्वतन्त्रैः श्रीमद्वदान्ताचार्यैः निगमान्ततत्त्वधारणसौकर्यार्थ स्रग्धरावृत्तपरिशोभमानपद्यमुक्तामणिभिर्यथितं तत्त्वमुक्ताकला - पाख्यं प्रबन्धरत्नं सूत्रप्रवन्धवदविस्तग्मपि सकलार्थसंग्राहकं जगतीतले विराजत इति । तस्यास्य प्रबन्धरत्नस्य मूलकृद्भिरेवाचार्यपादैः प्रणीता नातिविस्तृता नातिसंकुचिता च वृत्तिरूपा सर्वार्थसिद्धयाख्या व्याख्या मूलश्लोकसंगृहीतार्थविवरणरूपा परिदृश्यते। यथोक्तं तैरेवाचार्यपादैर्ग्रन्थादौ नातिव्यासव्यतिकरवती नातिसंकोचखिन्ना वृत्तिस्सेयं सरसरुचिरा कल्प्यतेऽस्माभिरेव ॥ इति । तदिदं सव्याख्यं तत्त्वमुक्ताकलापाख्यं प्रबन्धरत्न जडद्रव्यसरः, जीवसरः, नायकसरः, बुद्धिसरः, अद्रव्यसरः, इति पञ्चभिर्ग्रन्थान्तरालिकभागैस्सराण्यैर्विभक्तं दृश्यते। __ अत्र च विशिष्टाद्वैतसिद्धान्तनिर्धारणैदंपर्येण युक्तिप्रमाणसंप्रदायोपपत्त्यादिप्रकाशनपूर्वकं भगवद्रामानुजसंयमीन्द्रस्थापितं निगमान्ततत्त्वजातं समग्राहि । प्रसङ्गादत्रेतराणि वैदिकान्यवैदिकानि च दर्शनानि तत्तद्युक्तिप्रमाणादिविमर्शनपुरस्सरं सुपरीक्षितानि चेत्येतत्प्रबन्धपरिशीलयितृणामपाणिपिहितमिति नानास्माभिरधिकं प्रस्तूयते। 111Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 426