Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 7
________________ तस्यास्य प्रबन्धरत्नस्य जडद्रव्यसराह्वयः प्रथमो भागः पुरा प्रथमसंपुटे श्रीमन्नृसिंहराज-श्रीमदभिनवरङ्गनाथब्रह्मतन्त्रपरकालस्वामिवर्यप्रणीताभ्यां आनन्ददायिनी-भावप्रकाशाख्याभ्यां व्याख्याटिप्पणाभ्यां सार्धमेतत्संस्थातः संमुद्रय प्राकाश्यमनायि । तदनु द्वितीये संपुटे द्वैतीयीकजीवसरगतो जीवाणुत्वनिरूपणान्तो ग्रन्थभागोऽपि ताभ्यामेवानन्ददायिनीभावप्रकाशाख्यव्याख्याटिप्पणाभ्यां सह प्रकाशितः। तदनन्तरं च परुद्वत्सरे तृतीये संपुटे जीवसरगत एव तदुपरितनो मोक्षोपायभूतभक्तिनिरूपणान्तोऽपरोऽपि भागस्ताभ्यामेवानन्ददायिनीभावप्रकाशाख्यव्याख्याटिप्पणाभ्यां सहैव मुद्रयित्वा प्राकाश्यमुपनीतः। तदिदानीं भावप्रकाशाख्यटिप्पणप्रणेतृणां श्रीमद्भिनवरङ्गनाथब्रह्मतन्त्रपरकालस्वामिवर्याणां गूढार्थसंग्रहाभिख्यश्रीभाष्यटिप्पणप्रणयने तन्मुद्रापणादिषु चोररीकृतावधानतया प्रकृतावशिष्टभावप्रकाशाख्यटिप्पणप्रणयनेऽवश्यंभाविन विलम्बं, परस्तादेतत्परिशिष्टतया पृथगवशिष्टभावप्रकाशटिप्पणमुद्रापणं, मुहुर्मुहुरहमहमिकयाऽऽवेद्यमानं बहूनां प्रेक्षावतां मुद्रितसव्याख्यसर्वार्थसिद्धिप्रबन्धावेक्षणकौतूहलं, सुबहोः कालात्समारब्धमुद्रणस्य सव्याख्यसर्वार्थसिद्धिप्रबन्धस्यास्य प्रकृते एकया व्याख्यया वाऽपि साकं मुद्रापणेन समापनौचित्यं चानुचिन्तयतामेतत्संस्थाध्यक्षाणां निदेशमनुरुध्य संपुटेऽस्मिन् तत्त्वमुक्ताकलापस्थस्तृतीयो नायकसर आनन्ददायिनीव्याख्यामात्रसंवलितया सर्वार्थसिद्धयाख्यव्याख्यया साकं संमुद्रय प्रकाश्यते। एतद्ग्रन्थप्रणेत्रादिविषयेऽवश्यवक्तव्यांशस्सर्वोऽपि प्रथम एव संपुटे प्रकाशित इति न पुनरत्र तद्विषये लेखनी प्रसारयामः । एतत्संपुटगतनायकसरप्रतिपाद्यविषयसंग्रहः एतत्संपुटपरिदृश्यमाने नायकसरे-परब्रह्मणो जगच्छरीरकत्व-जगत्कर्तृत्व-जगदुपादानत्व-वाच्यत्व-वेद्यत्व-शाब्दमुख्यवृत्तिविषयत्वादीन् प्रसाध्य, नारायणेतरस्य परतत्त्वतामभिमन्यमानानां बहूनां वादिनां मतानि निरस्य नारायणस्यैव परतत्त्वतां सुबहु

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 426