Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 12
________________ अभिप्रायः चतुर्थे देवयोनिप्रदर्शनेन देवविभागं विस्तृतरूपेण निरूप्याध्यायोऽयं पूर्णीकृतः। पञ्चमे जीवानां साक्षात् परम्परया चोपकारिभूतानां धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायपुद्गलास्तिकायकालेत्यजीवतत्त्वानांलक्षणप्रभेदावगाहप्ररूपणपूर्वकं सुस्पष्टतया निरूपणं कृतम् । षष्ठसप्तमाष्टमेषु च जीवानां संसारमोक्षावस्थासाधकबाधकानां स्वरूपं युक्तिपूर्वकं प्रदर्शकमास्रवबन्धाख्यं तत्त्वद्वयं विस्तरेण प्रतिपादितम् । नवमेऽध्याये मोक्षसंसारावस्थासाधकबाधकानां लक्षणस्वरूपभेदप्रभेदनिरूपणपूर्विका संवरनिर्जराख्यतत्त्वद्वयी प्ररूपिता। दशमे मोक्षस्वरूपप्रतिपादकं मोक्षतत्त्वं निरूपितम् ।। किश्च यथाऽस्य स्वोपज्ञभाष्यभूषितस्य सूत्रस्योपरि अनेकाष्टीका सम्प्रत्यप्युपलभ्यन्ते तथैव केवलसूत्रोपर्यपि सम्प्रदायान्तरिका वार्तिकवृत्त्यादिरूपा बहवष्टीका दृष्टिपथमवतरन्ति । तासु सर्वासु टीकासु मदीयं मनस्तु पूज्यपादभगवसिद्धसेनगणिविरचितवृत्त्या यादृशमाकृष्टं तादृशं न कयाऽपि टीकया । पठिता अपि प्रायोऽनेकाष्टीकाः, परन्तु न्यायशैलीपूर्वकसिद्धान्तप्ररूपणमतीवगम्भीररूपेणात्र यादृशं प्रतिभाति तादृशमन्यत्र न । अत्र तु भवभीरुणा श्रीमता भगवता सिद्धसेनमुनिवरेण तथाविधमपि कष्टसाध्य कार्य सम्पूर्णतया कृतम्। वृत्तिरपि सार्धद्वाविंशतिश्लोकसहस्रप्रमाणा विशालकाया गम्भीरार्थप्रतिपादिका दृश्यते । अपरश्च तत्र सूत्रार्थनिष्कर्षरूपाणि वाक्यान्यपि प्रचुरतयोपलभ्यन्तेऽत एव ज्ञायते प्रौढपाण्डित्यसूचिकेयं वृत्तिः प्राचीनतरापि। भाष्यमपि सर्व विशदरूपेण व्याख्यातमनेन महर्षिणा, अन्यैस्तु स्वकीयस्वार्थसाधकत्वं तत्राविलोक्य नैतदुमास्वातिप्ररूपितमित्युक्त्वा विलुम्पकैर्विलुम्पितं, परन्तु न तत्र तादृशापलापकार्यकरणे मनागपि अधोदृष्टम् । किञ्च भवभीरुणा श्रीसिद्धसेनगणिना तु पूज्यतया सूत्रसहितं भाष्यं प्रामाणीकृत्य व्याख्यातम् । षडधिकद्विशत (२०६)तमे पृष्ठे भाष्यवृत्तिगतोल्लेखस्य भावार्थस्तु प्रक्षिप्तकारस्य प्रमत्तत्वकथनद्योतकं, न तु पूज्यपादभाष्यकारस्य, यतस्तत्त्वरत्नानामाकरमर्पयितुरुपकारस्थाने दोषारोपणं कः सुधीः कुर्यात् । किञ्च वृत्तिकारमहाशयानामाशयानभिज्ञेन केनचित् पण्डितंमन्येनाक्षेपो वृत्तिकारोपरि कृतः, स तु निनान्तभ्रममूलकोऽवगन्तव्यः। अपरश्चेयं वृत्तिरपि सूत्रभाष्यसमेता जैनसमाजस्य भाग्योदयेन महानुभावैः सज्जनमहोदयैर्देवचन्द्र लालभाइ जैनपुस्तकोद्धारसंस्थाकार्यवाहकैर्विपुलद्रव्यव्ययपूर्वकं महत्पुण्यस्वायतीकृत्य मुद्रापिता । किञ्च तादृशग्रन्थरत्नस्य प्रशंसनीयं संशोधनकार्य महापरिश्रमपूर्वकमनेकग्रन्थसम्पादकानुवादकविवेचकविद्वद्वर्यप्रोफेसर हीरालाल रसिकदास कापडिया एम्. ए. इत्युपाधिधारिणा विशिष्टप्रस्तावनाटिप्पण्यादिविषयविभागविशदपूर्वकं कृतं तेन पाठकानां पठनपन्था अतीव सरलः कारितः । यादृशं संशोधनकार्यमन्यैः कर्तुं दुःशकं तादृशमनेन 'महाशयेन कृतम् । पाठान्तराण्यपि न विस्मृतानि । अन्तत एतत्संस्थाकार्यवाहकश्रेष्ठिवर्यजीवनचन्द्रसाकरचन्द्रप्रभृतयः श्रद्धापूर्वकसंशोधनकार्यकर्तारः प्रोफेसरहीरालालमहाशया अपि धन्यवादमर्हन्ति । एते सर्वेऽपि एतादृक्साहित्योद्धारकार्यकरणे निरन्तरदक्षा भवन्त्विति शासनदेवं प्रति विज्ञप्यते न्यायतीर्थमुनिमङ्गलविजयेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 472