Book Title: Tattvarthadhigamsutram Part 2 Author(s): Umaswati, Umaswami, Hiralal R Kapadia Publisher: Jivanchandra SakarchandraPage 26
________________ २२ वानां च ( ८ ) " अत एव च भेदः प्रदेशानामवय- (८) " यद्यप्यवयवप्रदेशयोर्गन्धहस्त्याये न जातुचिद् वस्तुव्यतिरेकेणोप- |दिषु भेदोऽस्ति । " लभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवाः इत्यत० ।" - स्याद्वादमञ्जर्यं ६३तमे पृष्ठे -तत्त्वार्थ(अ. ५, सू. ६) वृत्तौ (पृ. ३२८ ) प्रस्तावना अथ दिगम्बर साहित्ये गन्धहस्तिपरत्वे कीदृश उल्लेखाः सन्तीति विचार्यते । शकीयदशैकादशशताब्दीयेषु दिगम्बरीय शिलालेखेषु एकस्य सुभटस्य गन्धहस्तीत्युपाधिरवलोक्यते, परन्तु न चायमुल्लेखोऽत्रोपयुक्तो विशेषतः । दिगम्बरपरम्परानुसारेण आप्तमीमांसादिप्रणयितृभिः श्रीसमन्तभद्राचार्यैस्तत्त्वार्थसूत्रस्य मोक्षशास्त्रेत्यपराह्नस्य या टीका निरमायि सा गन्धहस्तिरूपेण प्रसिद्धिं गता, परन्तु प्रमाणोपलब्धि विना कथं स्वीक्रियतेऽभिप्रायो ऽयम् ।। अपरश्च इयं टीका श्रीसमन्तभद्राचार्याणां कृतिरित्यङ्गीकरणेऽपि सर्वार्थसिद्धौ तत्वार्थराजवार्तिके वा तस्या नामधेयं किमप्यवतरणं न दृष्टिपथमवतरति, अतः किं फलति ? | यदि साऽभविष्यत् तर्हि सा नाशं गता, न केवलं श्रीअकलङ्कदेवसमयात् प्राक्, किन्तु श्रीदेव - नन्दीतिमूलनामधेयानां षेष्ठशताब्दीयपूज्यपाद समयादपि । परन्तु न चेयं सम्भावना विश्वासभाजनप्राया, यतः श्रीवीरसेनाचार्यैः ७३८ तमे शकसंवत्सरे प्रणीतायां धवलाख्यटीकायां वर्तते निम्नलिखितमवतरणमिति न्यायालङ्कारपण्डितबंशीधराः “उक्तं च पुनर्गन्ध हस्तिभाष्ये उपपदो जन्म प्रयोजनं येषां त इमे औपपादिकाः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि अनुत्तरे स्वौपपादिकाः ऋषिदासधन्य-सुनक्षत्र- कार्तिकेय - नन्द - शालिभद्रा-भय- वारिषेण - चिलातपुत्रा इति । " अनेन गन्धहस्तिभाष्यस्य विद्यमानता श्रीअकलङ्कदेवसत्तासमयरूपवैक्रमीयनव मशताब्दी पर्यन्तेत्यनुमीयते । -- किञ्च 'गन्धहस्ति' सञ्ज्ञात्मिका टीका तत्त्वार्थसूत्रं विहाय अन्यस्य कस्यचिद् दिगम्बरीयसैद्धान्तिकग्रन्थस्यापि न सम्भवतीति कथने निम्नलिखितादुल्लेखादन्यत् किमपि प्राचीनं प्रमाणं वर्तते इति न मे श्रुतिपथं दृष्टिगोचरतां वा गतम् “भगवद्भिरुमास्वातिपादैराचार्यवर्यैरसूत्रितस्य तत्त्वार्थाधिगमस्य मोक्षशास्त्रस्य गन्धहस्त्याख्यं महाभाष्यमुपनिबन्तः स्याद्वाद विद्याग्रगुरवः श्रीस्वामिसमन्तभद्राचार्याः । " Jain Education International १ श्री हेमचन्द्रसूरिवरनिर्मिताया स्याद्वादकारिकेत्यपराह्वया अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया वृत्तिरियं श्रीमल्लिषेणसूरिप्रणीता । २ प्रेक्ष्यतां दिगम्बर साहित्यगवेषक श्रीयुतजुगलकिशोररचितः स्वामिसमन्तभद्रनामको निबन्धः (पृ. १४१-१४३ ) । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 ... 472