________________
२२
वानां च
( ८ ) " अत एव च भेदः प्रदेशानामवय- (८) " यद्यप्यवयवप्रदेशयोर्गन्धहस्त्याये न जातुचिद् वस्तुव्यतिरेकेणोप- |दिषु भेदोऽस्ति । " लभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवाः इत्यत० ।"
- स्याद्वादमञ्जर्यं ६३तमे पृष्ठे
-तत्त्वार्थ(अ. ५, सू. ६) वृत्तौ (पृ. ३२८ )
प्रस्तावना
अथ दिगम्बर साहित्ये गन्धहस्तिपरत्वे कीदृश उल्लेखाः सन्तीति विचार्यते । शकीयदशैकादशशताब्दीयेषु दिगम्बरीय शिलालेखेषु एकस्य सुभटस्य गन्धहस्तीत्युपाधिरवलोक्यते, परन्तु न चायमुल्लेखोऽत्रोपयुक्तो विशेषतः । दिगम्बरपरम्परानुसारेण आप्तमीमांसादिप्रणयितृभिः श्रीसमन्तभद्राचार्यैस्तत्त्वार्थसूत्रस्य मोक्षशास्त्रेत्यपराह्नस्य या टीका निरमायि सा गन्धहस्तिरूपेण प्रसिद्धिं गता, परन्तु प्रमाणोपलब्धि विना कथं स्वीक्रियतेऽभिप्रायो ऽयम् ।। अपरश्च इयं टीका श्रीसमन्तभद्राचार्याणां कृतिरित्यङ्गीकरणेऽपि सर्वार्थसिद्धौ तत्वार्थराजवार्तिके वा तस्या नामधेयं किमप्यवतरणं न दृष्टिपथमवतरति, अतः किं फलति ? | यदि साऽभविष्यत् तर्हि सा नाशं गता, न केवलं श्रीअकलङ्कदेवसमयात् प्राक्, किन्तु श्रीदेव - नन्दीतिमूलनामधेयानां षेष्ठशताब्दीयपूज्यपाद समयादपि । परन्तु न चेयं सम्भावना विश्वासभाजनप्राया, यतः श्रीवीरसेनाचार्यैः ७३८ तमे शकसंवत्सरे प्रणीतायां धवलाख्यटीकायां वर्तते निम्नलिखितमवतरणमिति न्यायालङ्कारपण्डितबंशीधराः
“उक्तं च पुनर्गन्ध हस्तिभाष्ये उपपदो जन्म प्रयोजनं येषां त इमे औपपादिकाः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि अनुत्तरे स्वौपपादिकाः ऋषिदासधन्य-सुनक्षत्र- कार्तिकेय - नन्द - शालिभद्रा-भय- वारिषेण - चिलातपुत्रा इति । " अनेन गन्धहस्तिभाष्यस्य विद्यमानता श्रीअकलङ्कदेवसत्तासमयरूपवैक्रमीयनव मशताब्दी पर्यन्तेत्यनुमीयते ।
--
किञ्च 'गन्धहस्ति' सञ्ज्ञात्मिका टीका तत्त्वार्थसूत्रं विहाय अन्यस्य कस्यचिद् दिगम्बरीयसैद्धान्तिकग्रन्थस्यापि न सम्भवतीति कथने निम्नलिखितादुल्लेखादन्यत् किमपि प्राचीनं प्रमाणं वर्तते इति न मे श्रुतिपथं दृष्टिगोचरतां वा गतम्
“भगवद्भिरुमास्वातिपादैराचार्यवर्यैरसूत्रितस्य तत्त्वार्थाधिगमस्य मोक्षशास्त्रस्य गन्धहस्त्याख्यं महाभाष्यमुपनिबन्तः स्याद्वाद विद्याग्रगुरवः श्रीस्वामिसमन्तभद्राचार्याः । "
Jain Education International
१ श्री हेमचन्द्रसूरिवरनिर्मिताया स्याद्वादकारिकेत्यपराह्वया अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया वृत्तिरियं श्रीमल्लिषेणसूरिप्रणीता । २ प्रेक्ष्यतां दिगम्बर साहित्यगवेषक श्रीयुतजुगलकिशोररचितः स्वामिसमन्तभद्रनामको निबन्धः (पृ. १४१-१४३ ) ।
For Private & Personal Use Only
www.jainelibrary.org