________________
प्रस्तावना अपरश्च गन्धहस्तिमहाभाष्यकर्तारः श्रीसमन्तभद्राचार्या दिगम्बरीया एवैति सुनिश्चयो न सञ्जायेत निम्नलिखितपदवीक्षणोनोत्पद्यमानशङ्काया निरसनं विना ।
"अथो गुरुश्चन्द्रकुलेन्दुदेव-कुलादिवासोदितनिर्ममत्वः।।
समन्तभद्रः १७ श्रुतदिष्टशुद्ध-तपस्क्रियः पूर्वगतश्रुतोऽभूत् ॥
वृद्धस्ततोऽभूत् किल देवसूरिः १८, शरच्छते विक्रमतः सपादेः ।" सहस्रावधानिश्रीमुनिसुन्दरमरिकृताया गुर्वावल्या अवतरणमिदम् । अनेन श्रीसमन्तभद्रसमयो यो ध्वन्यते स एव दिगम्बरसम्प्रदाये श्रीसमन्तभद्रसमयरूपेण सुप्रतिष्ठितः । अतः समुपतिष्ठति शङ्का यदुत किमिमे श्वेताम्बरीया दिगम्बरीया वा । एवं परिस्थित्यां सत्यां दिगम्बरीयश्रीसमन्तभद्राचार्गन्धहस्तिनाम्नी टीका प्रणीतेति निर्णयात्मक कथनं दुःशकं प्रतिभाति ।
वाचकविचार:
वाचकशब्दस्यार्थत्रितयं समस्ति-(१) पूर्ववित्त्वं, (२) उपाध्यायत्वं, (३) वाचकवंशीयत्वं च । श्रीउमास्वातीनुद्दिश्य उपाध्यायत्वं न सङ्गच्छते, आचार्यरूपेण तेषां सुप्रसिद्धत्वात् । एते वाचकवंशे सञ्जाता अतस्तेषां वाचकत्वं श्रीधनगिरि-सिंहगिरिवत , न तु विद्ययेत्यपि पक्षो नादरणीयः तत्समये पूर्वानुच्छेदात्, अनधिकारिषु पदवीप्रदानासम्भवात् , स्वस्य वाचकरूपेण स्वयं ग्रन्थकारकृतनिर्देशाद, घोषनन्दिक्षमणानामेकादशाङ्गवित्त्वरूपेणैव न तु वाचकपदद्वारोल्लेखात , उच्चैर्नागरस्य वाचकवंशस्य शाखारूपेण कथनस्यानुपलब्धेश्च । पण्डितसुखलालैर्वाचकवंशीयत्वेनैव तेषां वाचकत्वमिति कल्पना कृताऽस्ति, किन्तु साऽसमीचीना भाष्यगतप्रशस्तेः समुचितानवधारणात् तदुत्पत्तेः, अतः प्राथमिक एव अर्थोत्र स्वीकर्तव्यः । किश्च न कस्यापि श्वेताम्बरमुनिवरस्यास्य विषये विसंवादो दृश्यते ।
भाष्यं तत्कर्तृत्वं च
१ “समन्तभद्रः शान्तारिधर्माचार्यों दयानिधिः" इति जिनसहस्रनामगतपद्यार्थसूचितः समन्तभद्रो नात्र विवक्षितः, तस्य 'जिन'शब्दस्य पर्यायत्वात् । महर्षिबुद्धस्यापि पर्यायोऽयम् , परन्तु सोऽप्यत्रानपेक्षणीयः ।
२ इमे श्वेताम्बराचार्याः। ३ इयं तु अद्ययावत् नैवोपलब्धा । ४ एतदुल्लेखः समस्ति निम्नलिखितगाथायाम्
" वायगवरवंसाओ तेवीसइमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीणं ॥" ५ प्रेक्ष्यतां सभाष्यसटीकस्य तत्त्वार्थाधिगमसूत्रस्य प्रथमो विभागः (पृ. १, ३, १०)। ६ विलोक्यतामाङ्ग्लभाषानिबद्ध उपोद्धातः (पृ. ५)। ७ सूत्रभाष्यगतविशिष्टताऽपि व्यनक्ति तेषां पूर्ववित्त्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org