________________
प्रस्तावना भाष्यं स्वोपझं समस्ति न वेति प्रश्न उत्तरतो विचारयिष्यते । अत्र तावत् तदङ्ग समीक्ष्यते। एकत्रिंशत्सम्बन्धकारिका दशमाध्यायस्य सप्तमसूत्रस्य विवरणात्मिका द्वात्रिंशत् श्लोकाः प्रशस्तिश्च भाष्यस्याङ्गानीति ज्ञायते । यद्येषां सूत्ररूपेण गुम्फितेन मूलग्रन्थेन सहाङ्गाङ्गिभावरूपः पक्षः कक्षीक्रियते तर्हि भाष्ये तद्विवरणं किं नास्तीति प्रश्नस्य सन्तोषकारि समाधानं दुःशकम् । श्वेताम्बरटीकाकारादिभिर्भाष्यस्य स्वोपज्ञत्वं स्वीकृतं, दिगम्बरैस्तु अनादृतम् । एवं सत्यपि मुद्रिततत्त्वार्थराजवार्तिकप्रान्ते श्रीअमृतचन्द्रकृते तत्त्वार्थसारे च पूर्वोक्ता द्वात्रिंशत् श्लोका अङ्कादिरूपस्वल्पपरिवर्तनपूर्वका दृष्टिपथमायन्ति । अष्टमः श्लोक औमास्वातिक इति मत्वा श्रीहरिभद्रसूरिवरैः शास्त्रवातासमुच्चयसञ्ज्ञायां स्वकीयकृतौ ६९३तमपद्यरूपेणोदधारि । सम्बन्धकारिकाणामेकोनत्रिंशत्तमा तथैवोद्धृता श्रीमुनिचन्द्रसूरिभिर्धर्मबिन्दुवृत्तौ । कचित् आह उक्तं चेत्यादि निर्देशपुरस्सरं तदुल्लेखरहितानि वा यानि कतिपयानि पद्यानि भाष्ये दृश्यन्ते तान्यपि भाषाशैलीसमानत्वाद् भाष्यकारस्यैव सम्भवेयुः ।
शैली-साम्प्रदायिकाभिनिवेशा-ऽर्थविकासरूपैस्त्रिभिदृष्टिबिन्दुभिः परीक्ष्यमाणयोः भाष्यसर्वार्थसिद्धयोर्भाष्यस्य प्राचीनता पोस्फुरीति । अतस्तुष्यतु दुर्जन इति न्यायेन यदि भाष्यस्य स्वोपज्ञता न स्वीक्रियते तद्यपि उपलब्धव्याख्यानिकाये भाष्यस्य सर्वोपरि प्राचीनतेति कथने न मनागपि सन्देहो निष्पक्षप्रतिभाशालिनां सम्भवति ।
याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिशेखर-श्रीसिद्धसेनगणिवरप्रभृतिभिः समस्तैः श्वेताम्बरमुनिवर्भाष्यस्य स्वोपज्ञत्वं स्पष्टतयाऽङ्गीकृतमिति निर्विवादम् । प्रो. यकोबी-प्रो. विन्टर्नित्म-पं. सुखलालाद्याधुनिकविद्वद्वरैरपि तथैव कृतम् । अनेन किं न फलति यदुतेदं मतं प्रामाणिकम् ? । भवतु, द्वे युक्ती अपि निर्दिश्यते । तावत् कतिपयासु सम्बन्धकारिकासु भाष्येऽपि कुत्रचिदुपदेक्ष्यामः वक्ष्यामि वक्ष्याम इति प्रतिज्ञाद्वारा ये विषयाः सूचितास्तेषां प्ररूपणं सूत्रेषु दृश्यते, न तु भाष्ये। अतोऽनुमीयते सूत्रभाष्ययोरेककत्वमर्थाद् भाष्यस्य स्वोपज्ञता वरीवर्ति। अपरञ्च मूलकारव्याख्याकारयोर्यत्र भिन्न व्यक्तित्वं वर्तते तत्र प्रायः सूत्रपाठानां विसंवादिस्वरूपं तदर्थविषयकं विकल्पजालं सन्दिग्धत्वं सूत्रपाठभेदश्चेति दरीदृश्यते। निदर्शनार्थ समीक्ष्यतां सर्वार्थसिद्धिप्रमुखदिगम्बरटीकासाहित्यं श्रीवादरायणप्रणीतस्य ब्रह्मसूत्रस्य शारीरकसूत्रेत्यपराहस्य व्याख्यान वा। ईदृपरिस्थितेरभावो भाष्ये समर्थयति तत्स्वोपज्ञत्वमिति मे मतिः।
सूत्रभाष्ययोवैशिष्टयम्१ सन्तुल्यतामयं निम्नलिखितया श्रीऔपपातिकसूत्रगतया गाथया
" बीआण पुणरवि अग्गिदड्ढाणं अंकुरुप्पत्तीण भवइ । एवामेव सिद्धार्ण कम्मबीए दइडे पुनरपि जम्मुपत्ती न भव॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org