________________
प्रस्तावना
२५ तत्त्वार्थसूत्रे स्वोपज्ञे भाष्ये च कतिपया उल्लेखाः सन्ति ये श्वेताम्बरीयागमादिषु ग्रन्थेषु दिगम्बरीयप्रधानभूतेषु वा न दृष्टिपथमवतरन्ति । ते चैमे
(१) तत्त्वार्थसूत्रे (१-४) तत्त्वसप्तकस्य निर्देशः। जैनसम्प्रदायद्वये तु पुण्यपापपूर्वक सप्तकमिदमर्थात् नैवतत्त्वनिरूपणम् । एवं सति विरोधप्रसङ्ग इति चेन्न, 'शुभः पुण्यस्य' 'अशुभः पापस्य' इति सूत्रद्वयेन पुण्यपापयोस्तत्वरूपेण सूत्रकारैः स्वीकृतिः । किञ्च पुण्यपापयोः फलस्वातन्त्र्यमपि प्रदर्शितं 'सम्यक्त्वहास्यरतिपुंवेदशुभायुर्नामगोत्राणि पुण्यम्' इति सूत्रग्रथनेन ।
ननु प्रज्ञापना-स्थानाङ्गा-ऽनुयोगद्वारेषु जीवाजीवेति तत्त्वद्वयं निर्दिष्टम् । किमनेनास्रवादेरपलापो वक्तुं न शक्यते ? नैव, किन्तु सत्यमेतद् यदुत पुण्यपापयोः स्वतन्त्रतत्त्वरूपेणाङ्गीकृतिर्न कृता वाचकमुख्यैः, एकनिष्ठदृष्टया प्ररूपितं तत्त्वसप्तकम् ।।
(२) अस्मिन् ग्रन्थे (१-३४) नयानां प्रथमं पञ्चविधता प्रदर्शिता । तदनन्तरं (१-३५) पञ्चमस्य त्रैविध्यं प्रतिपादितम् । तत्र साम्प्रतमित्येकस्य नयस्य संज्ञा समस्ति साऽन्यत्र कुत्रापि न दृश्यते । एवं नयनिरूपणे वैशिष्टयं वर्तते । नैगमस्य सङ्ग्रहव्यवहारयोरन्तभोवं कृत्वा श्रीसिद्धसेनदिवाकरैनेयस्य सङ्ख्या षड् निर्धारिता । किञ्च विशेषावश्यकभाष्ये (गा.२२६४) नयपञ्चकप्रपञ्चो विद्यते स औमास्वातिकपरम्पराप्रतिबिम्बरूप इत्यनुमीयते । अनुयोगदारे वसतिप्रदेशविषयकनयवर्णनावसरे शब्दसमभिरूढवम्भूतानां गणनैकरूपेण कृता ।
१ एतदुल्लेखसमर्थनाय कतिपयान्यवतरणादीनि दीयन्ते, यथाहि
(अ)"अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरनिजरकिरियाहिगरणबंधप्पमोक्खकुसला" इत्यादि श्रावकज्ञानसमृद्धिवर्णनं भगवत्याम् । (आ) उत्तराध्ययनसूत्रे मोक्षमार्गगतिसञकेऽध्ययने निम्मलिखिता गाथा--
"जीवाजीवा य बंधो य, पुण्णं पावासवो तहा।
संवरो निज्जरा मोक्खो, संते ए तहिया नव ॥१४॥" (इ) वाचकवर्यप्रणीतायां प्रशमरतौ १९०तमपद्यादारभ्य १२१तमपर्यन्तानि पद्यानि । (ई) श्रीदेवेन्द्रसूरिविनिर्मितधर्मरत्नप्रकरणवृत्त्युद्धृता १०७ गाथाः ।
२“अस्या प्रज्ञापनायां षदात्रिंशत् पदानि, तत्र प्रज्ञापनाबहुवक्तव्यविशेषचरमपरिणामसज्ञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना । प्रयोगपदे क्रियापदे चाश्रवस्य 'कायवाङ्मनःकर्म योग आश्रव' इति वचनातू । प्रकृतिपदे बन्धस्य प्ररूपणा । समुद्रातपदे केवलिसमुद्धातप्ररूपणायां संवरनिजैरामोक्षाणां त्रयाणाम, शेषेष त स्थानादिषु पदेषु क्वचित् कस्यचित्" इति प्रज्ञापनावृत्तौ श्रीमलयगिरिसूरयः।
३ इदमनुसृत्य कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभिस्त्रिषधिशलाकापुरुषचरिते श्रीदेवानन्दसूरिभिः समयसारे, न्यायतीर्थन्यायविशारदोपाध्यायश्रीमङ्गलविजयैर्जेनतत्वप्रदीपेच तत्त्वसप्तकविरचनाऽकारीति प्रतिभाति।
४ सज्ञाऽभिनवस्वे समीक्ष्यतां पञ्चमे सूत्रे निक्षेपस्थाने न्यासपदप्रयोगः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org