SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २६ प्रस्तावना (३) श्राद्धानां गुणवतशिक्षात्रतानां यो क्रमोऽस्मिन् ग्रन्थे (७-१६) समादृतः स श्वेताम्बरपरम्परायां न नयनगोचरतां गतः। अत्रेदं ध्येयं यदुत व्रतग्रहणे क्रमस्य गौणत्वम् , न त्वमुकक्रमेण तद्ब्रहणस्य प्रतिपादनं कुत्रचिद् विद्यते । (४) अष्टमेऽध्याये षइविंशे सूत्रे पापपुण्यप्रकृतिविभागप्रदर्शनावसरे पुरुषवेद-हास्यरति-सम्यक्त्वमोहनीयेति प्रकृतिचतुष्कं पुण्यरूपेण व्यावर्णितम् । कर्मप्रकृतिप्रमुखकर्मग्रन्थादिषु नवतत्त्वविषयकेषु विविधेषु च ग्रेन्थेषु द्विचत्वारिंशत् पुण्यप्रकृतयः प्रदर्शितास्तत्र न एतच्चतुष्कस्य समावेशः कृतः। एतद्विरोधपरिहारकरणे टीकाकारा नालमिति स्वयं कथयन्ति द्वितीये विभागे १७८तमे पृष्ठे । एषा मान्यताऽऽसीदन्येषामिति तु निर्दिष्टं तैः १७९तमे पृष्ठे । अनुकूलतया यद् वेद्यते-अनुभूयते तत् पुण्यम्, प्रतिकूलतया तु यद् वेद्यते तत् पापमितिकथनपूर्वकं कस्मिंश्चिन्मासिके आगमानुरागीत्युपनामधारिणा केनापि भाष्यगतव्याख्यायाः सङ्गतिः साधितेति मां स्फुरति । (५) नवमेऽध्याये द्वाविंशे सूत्रे प्रायश्चित्तस्य नवविधत्वं निरदेशि । उत्तराध्ययनादिषु तु तस्य दशविधता प्रोक्ताऽस्ति । परन्त्वेतदभिप्रायभिन्नतयोः समाधान टीकाकारैः समसूचि २५३तमे पृष्ठे इत्यानन्दस्य प्रसङ्गः। छेदमूलप्रायश्चित्तयोरैक्यं कथञ्चित साधयितुं शक्यते । यतः साधुपर्यायस्यांशतश्छेदनं छैदः, सर्वथा छेदनं मूलम् । एवं छेदविवक्षया मूलस्यापि छेदेति सज्ञा स्यात् । अनवस्थाप्यप्रायश्चित्तेऽमुकं कालं पर्यन्तं महाव्रतारोपणं न विधीयते इति निष्कर्षः, परिहारेऽप्येवम्। उपस्थापनशब्देन स्थितिकरणात्मकोऽर्थो ध्वन्यते । प्रायश्चित्तस्य चिरकालेन पारं गत्वा स्थेयमित्यर्थात्मकः पाराश्चिकः । अनेनोपस्थापनेऽनवस्थाप्यपाराञ्चिकयोरन्तर्भावः । अपरश्च पाराश्चिकस्य प्रायश्चित्तस्य सद्भावश्चतुर्दशपूर्वधरानाश्रित्य । तेषामनुपलब्धौ एतदनुल्लेखोऽपि समीचीन इति केचित् । १ सर्वार्थसिद्धौ वार्तिकद्वयेऽपि सूत्रपाठभेदः समस्ति। २ नवतत्त्वप्रतिपादनपरिष्कृतानां कतिपयानां ग्रन्थानां नामानि सूच्यन्ते, यथाहि(अ) श्रीदेवगुप्तसूरिसूत्रितं नवतस्वप्रकरणम् । श्रीअभयदेवसूरिसन्दृब्धेन भाष्येण विभूषितम् । (आ) श्रीजयशेखरसूरिविरचितं नवतत्त्वप्रकरणम् । (इ) चिरन्तनाचार्यकृतावचूरि-श्रीसाधुरत्नप्रणीतावचूर्णि-श्रीदेवेन्द्रसूरिनिर्मितवृत्ति-वृहनवतत्त्वप्रक्षिप्तगाथासदवचूर्णिविभूषितं नवतत्त्वप्रकरणम् । (ई) श्रीभाग्यविजयादिकृतनवतत्वस्तवनादिगूर्जरगीर्गुम्फितो ग्रन्थसङ्ग्रहः । एतत्पृथङ्नामनिर्देशार्थ विलो. क्यतां श्रीजैनग्रन्थप्रकाशकसभाद्वारा प्रसिद्धिं नीतस्य नवतत्त्वविस्तरार्थस्य विषयानुक्रमणिकायास्त्रयोदशं पृष्ठम् । ३ त्रिंशत्तमेऽध्ययने एकत्रिंशत्तमायां गाथायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy