Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 17
________________ किञ्चिद् विज्ञापनम् । चिरत्नग्रन्थरत्नगवेषकाः ! सानन्दं निवेदयामि तत्रभवद्भ्यः शेमुषीशालिभ्यो यदुत बहाल्पसूत्रस्य श्रीतत्त्वार्थाधिगमसूत्रेतिनामधेयस्यास्य ग्रन्थरत्नस्य प्रथम विभागप्रस्तावनाप्रान्ते 'द्वितीय विभागं यथामति संशोध्य धीधन करकमले समर्पयिष्यामी'ति याऽभिलाषा प्रदर्शिता मया तत्पूर्तिः सञ्जाता सम्प्रति देवगुरुकृपाकटाक्षेण । परं न चायं मे प्रयासो विघ्नविकलः, यतो लघिष्ठभ्रातुः खुशमनलालस्य वर्षद्वयपर्यन्तानारोग्येण न केवलं नानाकदर्थना मम सञ्जाताः, किन्तु तत्परलोकगमनेन चिरस्थायी मर्मस्पर्शी उद्वेगश्चानुभूतो मया । किश्च 'श्रीमोहनलालजीजैनसेन्ट्रललाइब्रेरी सत्कक-संज्ञकप्रत्याधारेणारब्धे अद्यावध्यप्रकाशितैतद्विभागमुद्राप्यमाणपुस्तिकाकर्मणि गरीयांसं तापं समन्वभवम्, अशुद्धिपाठपातादिप्राचुर्यात् । श्रीयुतजीवनचन्द्रद्वारा प्राप्ता श्रीविजयसिद्धिमूरिवरसत्का ख-प्रतिरपि तद्दरीकरणे न प्रभविष्णुरभूत् । अतः प्रायः सार्धषष्ठाध्यायात गेतिसंज्ञानिर्धारितस्या मदीयजन्मभूमि'सूर्यपुर स्थ'जैनानन्दपुस्तकालय'प्रत्या आधारेण मुद्राप्यमाणा पुस्तिका कथमपि सम्पूर्णतामानिन्ये । __एवं महता कष्टेन विहितायां पुस्तिकायां 'एशियाटिक सोसायटी ऑफ़ बेन्गॉल' इति संज्ञया सुप्रसिद्धसंस्थया मुद्रापितस्य घ-संज्ञितस्य पुस्तकस्य साहाय्येन मूत्रभाष्यपाठानां संशोधनसमये महती चिन्ताऽऽपतिता यत् किं करणीयं शेषसन्दिग्धस्थलपरिस्खलनापरिमाजने । प्रकाशकमहाशयाय निवेदितेस्मिन् सङ्कटे तेन कतिपयमासान्तरे कस्याश्चन प्रतेः प्रतिलेखो मह्यं प्रददे। तत्र प्रतिलेखकस्य प्रमादात् लिपेरनभिज्ञानत्वाच शुद्धा अपि पाठा अशुद्धीभूता दृष्टिगोचरमागताः, तथापि किमपि साहाय्यमलेभि ङ-संज्ञकयाऽनया प्रत्या, अतो मूलप्रतिप्रापणे प्रयत्नोऽकारि किन्तु स न सफलीबभूव । ___एवं पुस्तकपञ्चकसाहाय्येन कथमपि निष्पादिता मुद्रणालयोचितपुस्तिका यन्त्रालये एव प्रेषिता । अत्रायं हेतुयेद् ग्रामानुग्रामविहारकरणप्रवृत्तानामागमोद्धारक-व्याख्याप्रज्ञजैनाचार्यश्रीआनन्दसागरसूरिवराणामेकत्र स्थिरताऽभावात् तत्सविधे पुस्तिकाप्रेषणे नावकाशः, विलम्बकरणं तु दुःसहं द्वितीयविभागपाठनतत्परजनानां वारंवारपृच्छनादित्वात् । सत्यामप्येवंविधपरिस्थित्यां ग्रन्थस्यास्य द्वितीयवेलाशोधनपत्राणि (revised proofs) तु मया प्रहितानि जैनागमप्रसिद्धिसेवाहेवाकिनां सार्वसिद्धान्तप्रवीणानां श्रीमतां आनन्द Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 472