Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 7
________________ ६ उद्देश्यत्वेऽपि अर्थकामयोः अशुद्धिरेव धर्मस्य । तत्परिहारोपदेशस्तु महामहोपाध्यायैः ‘अनिदानः - निदानरहितः, जिनरागतः भगवद्भक्तेः । अनेनोद्देश्यत्वाख्यविषयतया शुद्धिरभिहिता ।' ( द्वा. द्वा. ६.८) इति निरूक्तः । एवञ्च अर्थकामयोरुद्देश्यत्वं दर्शयन् भवान् - 'विनायकं प्रकुर्वाणो रचयामास वानरम्' इति अर्थान्तरदूषणमाप्तवान् । स्यान्मतम्, अर्थकामार्थं धर्मो न विधेयः, तर्हि किं पापं विधेयम् । तत्तुच्छम् । स्यादत्र प्रतिपृच्छा- अर्थकामयोः पुण्यत्वं पापत्वं वा ? नहि पुण्यत्वं दुष्टकर्मानुबन्धजनकत्वात् । पापत्वमिति चेत्, तर्हि पृच्छामः पापार्थं धर्मो विधेयो न वा इति । अथ पापार्थं धर्मनिषेधे कृते पापमेव करिष्यतीत्ययमपि पापोपदेश एवेति चेद्, अत एव न केवलं पापस्य, किन्तर्हि पापार्थिताया अपि हेयत्वमुपदिश्यते । सर्वदोषमूलमिदं पापार्थित्वमिति तत्त्यागे सुकर एव सर्वाराधनाप्रसरः । ननु अधिकाराः खलु भवन्ति तत्तदुपदेशानाम्, नव्यजीवान् धर्मे योजयतामुपदेशस्यैकोऽधिकारः, धर्मविषये नवीनानां स्थिरीकरणार्थमपि प्रस्तुत एवाधिकारः 1 समुपजातभौतिकाभिलाषाणां गुरूसमीपमुपागतानामुपदेशस्य द्वितीयोऽधिकारः तदुपायजिज्ञासया तृतीयस्तु 1 धर्मो मोक्षायैवेत्ययमुपदेशस्तु तृतीयाधिकारनिष्ठः । स च शेषद्वयविषयेऽप्रस्तुत इति समुचितमेवामीषां 'अर्थकामाद्यर्थं धर्म एव विधेय इत्युपदेशदानमिति चेत्, तच्चिन्त्यम् । धर्मसुस्थिराणामुपदेशस्याधिकारः मोक्षोपदेशस्य सर्वेषामेव हितकरत्वाद् । धर्मो मोक्षायैव इति श्रवणेन भवेदेव भव्यानामाशयोत्पादो यदुत - अहो महानयं धर्मः, यतो मोक्षस्य लाभः । लब्धोऽयं मया, ततो मोक्षावधान एव भवामि । किञ्चैतच्छ्रवणेन महिमाऽवधारणमपि भवति मोक्षस्य, अहो दुर्लभो मोक्षः, धर्मेणैव लभ्य इति, धर्मस्यापि साधनत्वमाकलयन्नयमुत्तमो धर्मादपीति तदाशय एव भवामि । धर्मसुस्थिरमतीनान्तु मोक्षेच्छाऽपि प्रान्ते त्याज्येत्यादिकमुपदेशदानमस्तु । किञ्च तृतीयाधिकारप्रवेशोऽपि मोक्षोपदेशश्रवणवैकल्येऽसंभवित इति कुतस्तमाममीषां मोक्षोपदेशदानमप्रस्तुतम् । समुपजात भौतिकाभिलाषोऽपि जीवो द्विविधः । सञ्जातापेक्षोऽ नवगततदुपायश्च प्रथमः । सञ्जातापेक्षोऽवगततदुपायश्च द्वितीयः । तत्र

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 218