Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 13
________________ तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥ जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्टं, मौढ्याद्धि सो न सिध्यति । सम्यग्ज्ञानी दयावांस्तु ध्यानी यस्तप्यते तपः । नग्नश्चीवरधारी वा स सिध्यति महामुनिः ॥ इति वाचकवचनम्' (२.१३) इति भगवत उल्लेखः । तत्रैव चाग्रे 'उक्तं च वाचकैः - मंगलैः कौतुकैर्योगैर्विद्यामंत्रैस्तथौषधैः । न शक्ता मरणात् त्रातुं सेन्द्रा देवगणा अपि' इति (४.१) । एतेह्युल्लेखाः भगवतोऽनुपलब्धप्रकरणानां तत्कालीनमस्तित्वं द्योतयन्ति, तत्तत्प्रकरणानाञ्च वैशिष्ट्यम् । ___ भगवता हि भाष्ये पाणिनेः पतञ्जलेश्च संदर्भः संगृहीतः । पाणिनिसूत्राणि यथा 'द्रव्यं च भव्ये' (५.३.१०४) इति प्रथमाध्यायस्य पञ्चमसूत्रभाष्ये । इन्द्रियमिन्द्रलिङ्गमिन्द्रदिष्टमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिति (४.२.९३) इति द्वितीयाध्यायस्य पञ्चदशसूत्रे । पाणिनिसूत्रन्तु . 'इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रदत्तमिति वा' । तथा ‘अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' इति पतञ्जलिवचनं (२. ३५) पञ्चमाध्याय एकोनविंशतितमसूत्रभाष्ये । अन्यदपि - 'शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' इति (२. ३२) तत्रैव । ___ शास्त्रमिदमागमादुद्धृतमिति परमोपास्यमागममिव । तत्त्वार्थजैनागमसमन्वयेनावगम्यते शास्त्रास्यास्यागममूलत्वम् । भगवतोऽन्यान्यपि शास्त्राणि सन्ति । प्रशमरतिप्रकरणम्, जम्बूद्वीपसमासप्रकरणम्, पूजाप्रकरणम्, श्रावकप्रज्ञप्तिप्रकरणम्, क्षेत्रविचारप्रकरणमित्यादि । भगवतो जन्म श्रीवीरनिर्वाणाद् ७१४ तमेऽब्दे, दीक्षा ७३३ तमेऽब्दे, सूरिपदवी ७५८ तमेऽब्दे, निर्वाणञ्च ७९८ तमेऽब्द इति विद्वांसः । जन्मस्थलञ्चैतेषामद्यतनमध्यप्रदेशसमीपवर्तिनागोदग्रामः . न्यग्रोधिका इति प्रस्तुतशास्त्रप्रशस्तिसमुल्लेखितः । एतद्विषये वैमत्यसंभवः । अनुमानशतं खलु विद्वद्भिराततमिति । ___परिचयश्च भगवतः प्रशस्तिग्रन्थाधारेण भवति । यथा किल श्रीमदार्यदिन्नसूरिवराणां प्रमुखशिष्येभ्यः श्रीमद्भ्यः आर्यशान्तिश्रेणिकेभ्य उच्चनागरी शाखा निर्गता । अस्यां शाखायां पूर्वविदः वाचनाचार्याः श्रीमन्तः शिवश्रीमुनयो बभूवुः । तेषां पट्टधराः श्रीमन्तो घोषनन्दिश्रमणाः । नैते पूर्वधराः , केवलमेकादशांगविदः । अमीषां समीपे दीक्षिताः भगवन्तः उमास्वातिपादाः ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 218