Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 11
________________ १० इत्याख्यया वर्णयन्ति । ___ बहुविषयस्यास्याभ्यासो यथा बहुजनैरादृतोऽस्ति तथा तस्य विवरणादिविस्तरोऽपि बहुभाषायामभूच भवति च । अस्य प्रधानं विवरणं भगवता स्वयमेव भाष्येण कृतम् । भाष्यरचना सकलसूत्ररचनासमनन्तरं विहितैतैरिति संभाव्यते । प्रथमं मूलसूत्राऽभ्यासः, पश्चाद्भाष्याऽभ्यास इति तेषामाशयः संभवितः । अत एव भाष्ये क्वचिदुत्थापनिका दृश्यते । यथा- ‘मतिश्रुतयोस्तुल्यत्वं वक्ष्यति' (१.२०) 'उक्तं भवता मानुषस्य स्वभावमार्दवार्जवत्वं चेति' । (३. १३) अत्र · तृतीयाध्याये पृच्छाविषयमुक्तमिति यदुक्तम्, तत् षष्ठाध्यायविषयम् एवमन्यद् । तत्त्वं तु विद्वद्गम्यम् । ग्रन्थकृदयं सर्वेषां पर्यायान् दर्शयत्येव । पर्यायस्य चोल्लेखमयम् 'अनर्थान्तरम्' इति विशिष्टशब्देन कुरुते । तथा च ‘मतिः स्मृतिः संज्ञा चिन्ता अभिनिबोध इतिअनर्थान्तरम् । (१. १३) भाष्येऽपि - अवग्रहो ग्रहणमालोचनमवधारणमितिअनर्थान्तरम् । (१.१४) क्वचित् पर्यादर्शनपरस्यास्य शब्दवैभवोऽनन्यो लक्ष्यते । यथा- अपायः अपगमः अपनोदः अपव्याधः अपेतमपगतमपविद्धमपनुत्तमिति - अनर्थान्तरम् । (१.१४) क्वचिदनान्तरशब्दं विहायापि पर्याया दर्शिताः, यथा केवलं परिपूर्ण समग्रमसाधारणं निरपेक्षं विशुद्धं सर्वभावज्ञापकं लोकालोकविषयमनन्तपर्यायमित्यर्थः । (१. ३०) । पूर्वविदयं ग्रन्थकारः । पूर्वाणां हि रचनाशैलीमनुमातुं शक्नुमः अमुना । किञ्च गद्यलयोऽपि परमविदुषोऽस्याऽद्भुतः । तथा चायम्- “एवं निसर्गाधिगमयोरन्यतरजं तत्त्वार्थश्रद्धानात्मकं शंकाद्यतिचारवियुक्तं xxxxxx निर्वाणप्राप्तियतनयाऽभिवर्धितश्रद्धासंवेगो भावनाभिर्भाविताऽऽत्माऽनुप्रेक्षाभिः स्थिरीकृताऽऽत्मा अनभिष्वङ्गः संवृतत्वान्निरास्रवत्वान्निस्तुणत्वाच्च व्यपगताभिनवकर्मोपचयः परीषहजयाद् बाह्याभ्यन्तरतपोऽनुष्ठानादनुभावतश्च सम्यग्दृष्टिविरतादीनां च जिनपर्यन्तानां परिणामाध्यवसायविशुद्धिस्थानान्तराणामसंख्येयगुणोत्कर्षप्राप्त्या पूर्वापचितकर्म निर्जरयन् x x x x x अत्यन्तप्रहीणार्तरौद्रध्यानो धर्मध्यानविजयादवाप्तसमाधिबलः शुक्लध्यानयोश्च पृथक्त्वैकत्ववितर्कयोरन्यतरस्मिन्वर्तमानो नानाविधानृद्धिविशेषान् प्राप्नोति ।' इति । अन्यत्रापि 'ततः संसारबीजबन्धनिर्मुक्तः फलबन्धनमोक्षापेक्षो यथाख्यातसंयमो

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 218