Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
मोक्षापेक्षाभावस्यापि तत्संभवात् । तदाह तत्रैव - जं संसारनिमित्तं पणिहाणं तं खु भन्नइ नियाणं ॥८५६॥ न चोक्तविषये प्रणिधानविशेषपूर्विका प्रवृत्तिर्नास्तीति प्रणिधानपूर्वकत्वमेवानुपन्नमिति वाच्यम्, तत्र हि निदानविशेषस्यैव वर्णनात्, न पुनः निदानमात्रस्य। अत एव त्रिविधमपि निदानं तत्र वर्णितम् । तृतीयस्यैव केवलस्य उपस्थापनमनवलोकिततत्त्वमसमीक्षिततत्त्वमनभ्यस्तमोक्षकलक्षितमेव ।
किञ्च तत्त्वार्थभाष्यकृता दृष्टफलानपेक्षिताया अनिदानत्वस्य च पृथगुपन्यासः (७. ३४) यः कृतः सोऽपि धर्माराधनायाः पूर्वं वा पश्चाद् वा भवाशंसायाः त्याज्यत्वमेव दर्शयति । बृहत्कल्पे तु - बन्धोति नियाणंत्तिय आससजोगो य होति एगट्ठा । ते पुण ण बोहिहेऊ, बंधावचया भवे बोही ॥ (६. ६३४७) इति बोधिलाभविघ्नत्वेन निदानस्य आशंसायोगस्य च हेयतोपदेश इति भवाशंसावैकल्योपदेश एव श्रेयान् इत्यलं विस्तरेण । क्वचिद् करिष्यामो विस्तरम् । अधुना प्रकृतमनुसरामः।
आराधना च मोक्षमार्गस्य त्रिषु संभवति । तदाहुः ‘साधुः साद्धश्च संविग्नपक्षी शिवपथास्त्रयः' ।। (द्वा.द्वा. ३०) अत्र त्रिष्वनुस्यूतं सम्यग्दर्शनम् ।। तदेव यथास्थानं ज्ञानं चारित्रं वा सम्यक्कक्षामासञ्जयति । मोक्षमार्गप्रवासे त्रयाणामपि यथायोग्यमुत्साहवेगं सम्यग्दर्शनमेव पूरयति । एतद्वशादुपलब्धेन शमसंवेगादिगुणेन त्रयोऽपि निजनिजकक्षानुरूपदोषविलयदोषपरिहाणि-दोषरोषादीन् संधारयन्ति ।
लक्षणसूत्रे (१.२) च यदीयं श्रद्धानमपेक्षितं तस्य तत्त्वार्थस्य वर्णनमेव ग्रन्थेऽस्मिन् बहुमतिं बिभर्ति । सम्यग्दर्शनं तावत् प्रथमाध्यायस्य द्वितीयसूत्रे, सम्यग्ज्ञानं पुनः नवमे सूत्रे, सम्यक्चारित्रं तु नवमाध्यायस्याष्टादशसूत्रे वर्णितम् । जीवादिवर्णनन्तु सर्वेष्वध्यायेषु विस्तृतम् । अध्यायचतुष्टये जीवतत्वम्, पञ्चमेऽजीवतत्त्वम्, षष्ठे आस्रवतत्वम्, सप्तमाष्टमयोः बन्धतत्वम्, नवमे संवरतत्त्वं निर्जरातत्त्वञ्च, दशमे मोक्षतत्त्वम् ॥ एतेषु श्रद्धानमिति दर्शनेनानुसन्धानं यद्यप्यस्ति, तथापि जीवादिवर्णनं स्वतंत्रमिव भासत इत्यत एव ग्रन्थकृता विहितमेतन्नाम तत्त्वार्थाधिगमसूत्रमिति ॥
अत्रावान्तरविषयतया नयवादादिप्रचुरविषयसमावेशः भगवता विहितः । अत एव आकरग्रन्थोऽयमिति प्रसिद्धिः । पूर्वमहापुरूषाश्चैनम् - अर्हत्प्रवचनसंग्रह

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 218