Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति ।' एवंरूपः शब्दाभिलेखः सरलो भासते, किन्तु सारल्येऽपि अन्तःकरणस्पर्शक्षमो लयो विरल
एव।
पद्यच्छटाऽपि चास्य सुन्दरा । यथा - 'गर्भसूच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्मक्षयं याति मोहनीये क्षयं गते ॥ xxx दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवत्ति नाङ्कुरः । कर्मबीजे तथा दग्धे नारोहति भवाङ्कुरः ॥ xxx उत्पतिश्च विनाशश्च प्रकाशतमसोरिह । युगपद् भवतो यद्वत्, तथा निर्वाणकर्मणोः ॥ xxx सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाऽऽप्नोति । दुःखनिमित्तमपीदं तेन सुलब्धं भवति जन्म ॥ जन्मनि कर्मक्लेशैरनुबद्धेऽस्मिंस्तथा प्रयतितव्यम् । कर्मक्लेशाभावो यथा भवत्येष परमार्थः ॥ इति । वस्तुतस्तु ग्रन्थकृतोऽस्य प्रशमरतिप्रकरणमनन्यं पद्यलये । शब्दबन्धं पश्यन्तु, अर्थगर्भं वाऽऽकलयन्तु प्रकरणमेतदनुपदं मदयत्येव मतिमतां मानसम् । यथा कालिदासः शाकुन्तलेनैव ख्यातकीर्तिः मेघदूतं निर्मायाक्षयकीर्तिः बभूव, तथा अयमपि भगवान् तत्वार्थाधिमसूत्रेणैव प्राप्तस्फारयशः प्रशमरतिप्रकरणप्रणयनेनानन्तयशस्को बभूव ।
तत्त्वज्ञानं यदि तत्त्वार्थाधिगमेनाप्यते, तर्हि स्वत्वज्ञानं निगदितप्रकरणेनेति । मोक्षमार्गावतारो तत्त्वार्थेन, मोक्षमार्गस्थैर्य भावनाशीलं निगदितप्रकरणेनेति । उभयत्र विषयबाहुल्यं दृश्यते । उभयत्र च नाविन्यमपि विलसति । एकमपि तत्वार्थाधिगमशास्त्रं सम्यगभ्यस्तं वैदुष्यपदमारोपयति, तथा केवलमुक्तप्रकरणमपि सम्यगधीतं वैराग्यपदमारोपयति । एवमेकतराभ्यासाभावो दुस्सहः । अयमेव चास्य ग्रन्थकृतो विशेषः । एतद्विशेषसमाकृष्टैरसंख्यविद्वद्भिराराधितोऽयं भगवान् शब्दब्रह्मणा । अत एव च तत्त्वार्थाधिगमस्य भूरिशः वृत्तयो लभ्यन्ते ।।
तत्र प्रधानानां नामस्मरणमुपयोगि । पूज्यानां श्रीमतां सिद्धसेनगणिवराणां बृहद्वृत्तिः भाष्यानुसारिणी । पूज्यानां श्रीमतां हरिभद्रसूरिवराणां वृत्तिः भाष्यानुसारिणी । पूज्यानां श्रीमतां यशोविजयवाचकपुङ्गवानां वृत्तिरपूर्णाऽपि महिमावती । चिरन्तनमुनिवराणां टिप्पणकम् । तथा - शास्त्रोपलब्धसमुल्लेखाद् गम्यते यदुत पूज्याः श्रीमन्तः मलयगिरिसूरयोऽपि वृत्तिं विहितवन्त इति ।।
पञ्चशतानां प्रकरणानां प्रणयनमेतेन भगवता कृतमिति विद्वत्प्रवादः । श्रीमदुत्तराध्ययनसूत्रस्य श्रीमत्शान्तिसूरिविहितवृतौ 'सम्यक्त्वज्ञानशीलानि

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 218