Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
१३
एकादशांगाध्ययनान्ते
पूर्वाभ्यासयोग्यतामाकलय्य
गुरुभिस्ते महावाचनाचार्यश्रीमुण्डपादक्षमाश्रमणपट्टधराणां श्रीमतां वाचनाचार्याणां श्रीमूलानां सेवायां स्थापिताः । अत्र च भगवतां पूर्वाभ्यासः । कल्पसूत्रसम्मतोऽयं क्रमः । निजगुरूतोऽधिकां तेजस्वितां धारयन्त इमे विनयशीला आसन्निति तेषां शब्दा नामभ्यासेन प्रतीयते 1 तदाहुरमी प्रशमरतौ- श्रुतबुद्धिविभवपरि हीणकस्तथाप्यहमशक्तिमविचिन्त्य । द्रमक इवावयवोञ्छकमन्वेष्टुं तठप्रवेशेप्सुः ॥४॥ यच्चासमञ्जसमिह छन्दःशब्दसमयार्थतो मयाऽभिहितम् पुत्रापराधवत्तन्मर्षयितव्यं बुधैः सर्वम् ।। ३१२ ।।
1
एवंविधनम्रताऽऽदिगुणगुणालयस्य भगवतः शास्त्रं तत्त्वार्थाधिगमाख्यं यद्यपि अनेकैरनेकशश्च प्रकाशितमित्यनवकाशः प्रस्तुतप्रकाशनस्य, तथापि बहुष्वपि प्रकाशनेषु केवलो भाष्यसमेतः सूत्रपाठ दुर्लभ आसीद् । एतादृक् प्रकाशनं प्रायो ऽशीतिसंवत्सरपूर्वं आर्हतमतप्रभाकरसंस्थया कृतम् । तत्संपादनञ्च मोतीलाल लाधाजीमहोदयेन सम्यक्कृतम् । विदुषा ह्यनेन विहिता विविधा टिप्पन्यः, संकलितानि परिशिष्टानि, समावेशितानि प्रकाशनकाल आवश्यकानि चित्राण्यपीति । सर्वप्रथमं तु सूत्रमेव केवलभाष्यसमेतं मुद्रणीयमिति विचारितमासीत् । किन्तु विविधशास्त्रादुद्धृतानां टिप्पणीनां माहात्म्यमवधार्य ता अपि आदेया एवेति निर्णीतम् । अपरञ्च प्रतिमुद्रणमेव निर्णीतं पूर्वम् । तदर्थञ्च सूक्ष्मेक्षिकया पुस्तकमेतद् दृष्टम् । तदा किञ्चिद्वैकल्यं प्रतीतम् । अन्यत्रापि चैतद्विषये पठितं यत् शोभनमपीदं प्रकाशनं मुद्रणशुद्धिमल्पविरामादिविवेकञ्चापेक्षत इति । प्रतिमुद्रणे तु यथातथमेव मुद्रितं भवतीति पुनर्मुद्रणमेव श्रेयस्करमित्यवगतम् । एवं जात आरम्भः ।
एतस्मिन् पुनर्मुद्रणे तु संपादनव्यवस्था परावर्तिता । पूर्वसम्पादने परिशिष्टानि मूलग्रंथादर्वागासन्, अत्र तानि प्रान्ते स्थापितानि । पूर्वसम्पादने टिप्पणीष्वपि क्वचिद् विचारपात्रमासीद्, अत्र तदीयं संशोधनं कृतम् । पूर्वसम्पादने वाक्यरचनादिषु हस्तलिखितप्रतिवदेवाक्षराणां क्वचिदेकत्रीभावः कृतः, अत्र यथाशक्यं वाक्योपवाक्यादिविवेके प्रयत्नो विहितः । पूर्वसम्पादने यानि चित्राण्यासन तान्यद्यतनसमयेऽतिप्रसिद्धानीति न समावेशितानि । एवंविधेऽपि प्रयले मदीयमर्यादा क्षयोपशमवैकल्येन क्वचिद् दृश्यत एवेति क्षमायाचनमस्तु तदर्थम् । सौजन्यमेतत्प्रकाशने श्रीमत्या आर्हतमतप्रभाकरसंस्थाया अविस्मरणीयम् ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 218