Book Title: Tattvarthadhigam Sutram Author(s): Prashamrativijay Publisher: Ratnatrai Aradhak Sangh View full book textPage 9
________________ श्रीमता सिद्धसेनगणिना विहितः परामर्शः । स चायम् - 'स्यान्मतम्, नन्वेवमभ्युदयाऽऽशंसा कृता स्याद्, इष्टशरीरेन्द्रियादिनृसुरप्रादुर्भावफलत्वात् पुण्यस्य । निषिद्धाऽभ्युपगमे चाभ्युपेतबाधा स्यादिति । उच्यते, नैष दोषः । नृसुरैश्वर्यसुखप्रतिषेधाद् । नृसुरैश्वर्यसुखप्रतिषेधपरं हि मुनेः कृत्स्नं वचनम् । ‘सल्लं कामा...' (उत्त. ९.४३) इत्यादि । स्वर्गलोकगमनसुकुलप्रत्यापत्यादिवचनन्तु प्रधानार्थनिश्चयदायापादनार्थम् । x x x x नैव चात्र नृसुरैश्वर्यसुखाऽनुज्ञा, निःश्रेयसावाप्तिहेतुत्वेनानवद्यकर्माभ्यनुज्ञानाद् पुनर्बन्धकरं न भवति, मोक्षकरमेव तु भवति, इत्यनवा हि कर्म तत् । सर्वत्र हि भगवता निर्निदानत्वमभिप्रशस्तम्, उक्तं हि - भुज्जो निदाणकरणं मुक्खमग्गस्स पलिमंथू । सव्वत्थवि णं भगवया अणिदाणदा पसत्था । इति-(दशाश्रुतस्कन्धे) इति ॥ (तत्त्वा-कारिका ३) एवञ्च प्रधानाऽर्थनिश्चयो भवति- प्रत्यक्षं दृश्यमाना अर्थकामा इमे यथा धर्मस्य फलम्, तथैव मोक्षोऽपि धर्मस्यैव फलम् । न च मोक्षार्थमिव धर्म अर्थकामाद्यर्थमप्यस्तीति फलितमनेनेति वाच्यम् । 'भवतीतिविधानेनाविरोधात् । कर्तव्यविधौ किमर्थं विधेय इत्ययमेव विचाराऽवसरः । स च मोक्षार्थमेवेति सिद्धम् । अर्थकामाद्याशयेन विहितस्य धर्मस्य निदानदोषदूषितत्वाद् हेयत्वमेवेति तदुपदेशदानमनुचितम् । ननु निराशंसभावेन विहितस्य धर्मस्य पश्चात्प्रविष्टेन भवाशयेन मलीनत्वं यत्र भवति तदेव निदानम्, यत्र तु आरंभ एव धर्मस्य भवाशंसया क्रियते तत्र निदानत्वमनुपपन्नमिति चेद्, अत्र ब्रूमः । माऽस्तु भवाशंसयाऽऽरब्धस्य निदानत्वम्, प्रत्युत तस्याधर्मत्वमेवास्तु । यदाहुः ‘तनिर्वाणाऽऽशयो धर्मस्तत्वतो धर्म उच्यते । भवाशयस्त्वधर्मः स्यात् तथामोहप्रवृत्तितः ॥' (ब्रह्मप्र. ३०२) स्यादेतत्, ‘जो पुण सुकयसुधम्मो पच्छा मग्गइ भवे भवे भोत्तुं । सद्दाइकामभोगे भोगनियाणं इमं भणियं ॥ ८५९ ॥ (चैत्यवन्दनम. भा.) इति परमर्षिवचनम् । एतच्च परमोत्तममोक्षफलाशंसाऽऽराधितधर्मस्य निमित्तवशेन पुनः भवाशंसाकातरस्य भोगप्रार्थनं निदानमिति दर्शयति । अत्र मोक्षोपेक्षा अवगततन्माहात्येन कृतेत्येतदेव महदूषणम्, तदेव च निदानपापमिति । अत्रोत्तरम् - निदानस्य प्रणिधानरूपत्वात्, प्रणिधानस्य च प्रवृतेः पूर्वं संभवाद्, मोक्षोपेक्षाया इव १ भवतीति - अर्थकामलाभो भवतीति सम्मतम्, तदर्थं कर्तव्यो न वेति प्रश्ने निषेध एव तात्पर्यम् ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 218