________________
तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥ जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्टं, मौढ्याद्धि सो न सिध्यति । सम्यग्ज्ञानी दयावांस्तु ध्यानी यस्तप्यते तपः । नग्नश्चीवरधारी वा स सिध्यति महामुनिः ॥ इति वाचकवचनम्' (२.१३) इति भगवत उल्लेखः । तत्रैव चाग्रे 'उक्तं च वाचकैः - मंगलैः कौतुकैर्योगैर्विद्यामंत्रैस्तथौषधैः । न शक्ता मरणात् त्रातुं सेन्द्रा देवगणा अपि' इति (४.१) । एतेह्युल्लेखाः भगवतोऽनुपलब्धप्रकरणानां तत्कालीनमस्तित्वं द्योतयन्ति, तत्तत्प्रकरणानाञ्च वैशिष्ट्यम् ।
___ भगवता हि भाष्ये पाणिनेः पतञ्जलेश्च संदर्भः संगृहीतः । पाणिनिसूत्राणि यथा 'द्रव्यं च भव्ये' (५.३.१०४) इति प्रथमाध्यायस्य पञ्चमसूत्रभाष्ये । इन्द्रियमिन्द्रलिङ्गमिन्द्रदिष्टमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिति (४.२.९३) इति द्वितीयाध्यायस्य पञ्चदशसूत्रे । पाणिनिसूत्रन्तु . 'इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रदत्तमिति वा' । तथा ‘अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' इति पतञ्जलिवचनं (२. ३५) पञ्चमाध्याय एकोनविंशतितमसूत्रभाष्ये । अन्यदपि - 'शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' इति (२. ३२) तत्रैव । ___ शास्त्रमिदमागमादुद्धृतमिति परमोपास्यमागममिव । तत्त्वार्थजैनागमसमन्वयेनावगम्यते शास्त्रास्यास्यागममूलत्वम् । भगवतोऽन्यान्यपि शास्त्राणि सन्ति । प्रशमरतिप्रकरणम्, जम्बूद्वीपसमासप्रकरणम्, पूजाप्रकरणम्, श्रावकप्रज्ञप्तिप्रकरणम्, क्षेत्रविचारप्रकरणमित्यादि ।
भगवतो जन्म श्रीवीरनिर्वाणाद् ७१४ तमेऽब्दे, दीक्षा ७३३ तमेऽब्दे, सूरिपदवी ७५८ तमेऽब्दे, निर्वाणञ्च ७९८ तमेऽब्द इति विद्वांसः । जन्मस्थलञ्चैतेषामद्यतनमध्यप्रदेशसमीपवर्तिनागोदग्रामः . न्यग्रोधिका इति प्रस्तुतशास्त्रप्रशस्तिसमुल्लेखितः । एतद्विषये वैमत्यसंभवः । अनुमानशतं खलु विद्वद्भिराततमिति । ___परिचयश्च भगवतः प्रशस्तिग्रन्थाधारेण भवति । यथा किल श्रीमदार्यदिन्नसूरिवराणां प्रमुखशिष्येभ्यः श्रीमद्भ्यः आर्यशान्तिश्रेणिकेभ्य उच्चनागरी शाखा निर्गता । अस्यां शाखायां पूर्वविदः वाचनाचार्याः श्रीमन्तः शिवश्रीमुनयो बभूवुः । तेषां पट्टधराः श्रीमन्तो घोषनन्दिश्रमणाः । नैते पूर्वधराः , केवलमेकादशांगविदः । अमीषां समीपे दीक्षिताः भगवन्तः उमास्वातिपादाः ।