Book Title: Tattvarthadhigam Sutram Author(s): Prashamrativijay Publisher: Ratnatrai Aradhak Sangh View full book textPage 5
________________ प्रस्तुतिः। मोक्षमार्ग प्रवक्ष्यामि। तत्त्वार्थाधिगममहाग्रन्थोऽयमनवद्यगद्यपद्यादिकुशलकविविनिर्मितकाव्यप्रबन्ध इवाश्रयस्थानमवगाहितशब्दादिसमयामेयरहस्यानामसंख्येयसंख्यावताम् । रसोऽस्य श्रद्धानभावोऽनन्तविजिनपतिसमुपदिष्टसकलतत्त्वेष्वामूलचूलं प्रबन्धानुसरदमन्दमोद इव । अलंकाराश्चास्य ज्ञानप्रकारा अनुपदमुपस्थापितसहृदयहृदयसंवेदनीयविविधतर्काः प्रधानरसस्रवानुसारिण इव । गुणाश्चास्य चारित्रप्रस्तावा निजनिजस्थानोपयोजितस्वतत्त्वाः सकलरसावेगमुत्कटमुत्तेजयन्त इव । रीतिश्चास्याऽऽर्हती भावकजनमनःसंवादसम्पादनचतुरा प्रतिपदमपरिहार्येव । व्यक्तिश्चेहाऽविषयाऽपि शब्दानां शब्दप्रभवैवानिर्वचनीयानन्दकन्दस्याध्यात्मरसस्य । औचित्यञ्चात्रानुसरणभावावेशपरवशं समर्पणमेवैकान्तिकमुपनिषद्भूतञ्च ।। __ आसवोऽयं तत्त्वज्ञानस्य । पराभवोऽयमतिगर्हणीयचरितस्याभिमानस्य । लवोऽयमनतिशयितधीधनमुनिजनसमाराधितदृष्टिवादमहानिधानस्य । दवोऽयमज्ञानमहाकाननस्य । धवोऽयं परमपदविरहातुराराधनगानस्य । रवोऽयमर्हदागमैकतानस्य विहितवैराग्यवारिवतीस्नानस्य भवविरहदत्तावधानस्य महामुनेः उमास्वातिभगवतः।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 218