Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 6
________________ विषयोऽस्य मोक्षमार्गः । अयञ्च जीवपरिणामविशेषः । तदुक्तम् ‘मार्गः विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही जीवपरिणामः ।' (द्वा. द्वा. ४.२६) परिणामविशेषश्चायं प्रवृत्तिविशेषसंवलितत्वेन प्रवृत्तिरूपतया प्रसिद्धः । प्रवर्तकत्वेन तु शास्त्रमेवेदं मोक्षमार्गः । यदाह- ‘मार्गः प्रवर्तकं मानं शब्दो भगवतोदित' इति (द्वा.द्वा. ४.१) । प्रवर्तकस्य परिणामजनकत्वम्, परिणामस्य प्रवृत्तिजनकत्वम्, प्रवृत्तेश्च मोक्षप्रापकत्वमिति स्पष्टम् । ___ अत्र च परिणामविशेषः सर्वप्रथमं भवभय एव । भयस्य हि स्वविषयविरूद्धतत्त्वानुरागस्वभावस्य मोक्षानुराग एव फलम् । यस्य भवभयोत्पादस्तस्यैव मोक्षानुरागसंभवः । यस्य न भवभयोत्पादस्तस्य न मोक्षानुराग इति मोक्षमार्गस्य प्रथमः पदक्रमः भवभयः । भवभयो हि महानुभावः दुर्गतिप्रपतज्जन्तुधारणशीलं धर्मं प्रति संवाहयत्यात्मानम् । भवाभीतानां मोक्षजनकत्वेनैव च धर्मप्रीतिः । भवं नेच्छामि, मोक्षमेवेच्छामि, स च धर्मेणैव सम्पाद्य इति गुरवो वदन्ति, ततो धर्म एव शरणम् - इत्यस्य भावनाविस्तरः । मोक्षादरनिष्ठकारणतानिरूपितकार्यतावच्छिन्नस्तस्य धर्मादर इति तात्पर्यम् । धर्मस्तु पुनः मोक्षनिष्ठकार्यतानिरूपितकारणतावच्छिन्न इति सुगमो विवेकः । एवञ्च मोक्ष एवोपादेय इति तत्त्वार्थाधिगमफलम् । मोक्षार्थञ्च धर्म एव विधेयः । धर्मश्च विधीयमानो मोक्षाशयाविद्धो विधेयः । इदमुक्तं भवति- मोक्षार्थं धर्म एव । धर्मः मोक्षार्थमेव । उभयावधारणञ्चैवं शास्त्रसिद्धम् । तथा चाहुः- 'उभयावधारणं चात्र भवति । जरायुजादीनामेव गर्भः । गर्भः एव जरायुजादीनाम् । नारकदेवानामेवोपपातः । उपपात एव नारकदेवानाम् । शेषाणामेव सम्मूर्छनम् । सम्मूर्छनमेव शेषाणाम् ।' (तत्वार्थभाष्ये (२. २६.) एतेन- 'धर्म मोक्ष माटे ४ ४२पो मे' मा पाय धन उद्देश्य बनावाने, भेना પ્રયોજન તરીકે મોક્ષનું વિધાન કરે છે. એટલે જ ધર્મને જ ઉદેશ્ય બનાવીને મોક્ષભિન્ન અર્થકામનું પ્રયોજન તરીકે વિધાન કરતું વાક્ય (ધર્મ, અર્થકામ માટે કરવો જોઈએ' આવું पाय) अनाथी वि३६ ४३... ५५, અર્થ કામ માટે ધર્મ જ કરવો જોઈએ' આ વાક્ય, અર્થકામને ઉદ્દેશ્ય બનાવીને એના ઉપાય તરીકે ધર્મનું વિધાન કરનારું છે. માટે એ શી રીતે ધર્મ મોક્ષ માટે જ કરવો જોઈએ भेवापश्यतुं विरोधी ४३.' इति तत्त्वावलोकनसमीक्षाकृद्वचनमपाकृतम् । मोक्षार्थं धर्म एवेत्यत्र विरोधप्रसक्तेः । न हि धर्मः अर्थकामार्थमेवेति भङ्गो भवति । किञ्च

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 218