Book Title: Sutrakritangasutram Author(s): Shilankacharya, Publisher: Agamoday Samiti View full book textPage 7
________________ यधौव्ययुक्तं सदिति, वृत्तनिबद्धसूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं तद्यथा - बुद्धिअति तिउट्टिजेत्यांदि, जातिनिबद्धं तु चतुर्द्धा, तद्यथा-कथनीयं कथ्यमुत्तराध्ययनज्ञाताधर्मकथादि, पूर्वर्षिचरितकथानकप्रायत्वात्तस्य, तथा गद्यं ब्रह्मचर्या - ध्ययनादि, तथा पद्यं—– छन्दोनिबद्धं, तथा गेयं यत् स्वरसंचारेण गीतिकाप्रायनिबद्धं तद्यथा कापिलीयमध्ययनं 'अंधुवे असासयंमि संसारंमि दुक्खपउराए' इत्यादि ॥ ३ ॥ इदानीं कृतपदनिक्षेपार्थं निर्युक्तिकृद्भाथामाह करणं च कारओ य कडं च तिपि छक्कनिक्खेवो । दब्वे खित्ते काले भावेण उ कारओ जीवो ॥ ४ ॥ इह कृतमित्यनेन कर्मोपात्तं, न चाकर्तृकं कर्म भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्य, अमीषां त्रयाणामपि प्रत्येकं नामादिः षोढा निक्षेपः, तत्र गाथापश्चार्द्धेनाल्पवक्तव्यखात्तावत्करणमतिक्रम्य कारकस्य निक्षेपमाह, तत्र नामस्थापने प्रसिद्धखादनादृत्य द्रव्यादिकं दर्शयति - 'दव्वे' इति द्रव्यविषये कारकश्चिन्त्यः, स च द्रव्यस्य द्रव्येण द्रव्यभूतो वा कारको द्रव्यकारकः, तथा क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायते स क्षेत्रकारकः, एवं कालेऽपि योज्यम्, 'भावेन तु' भावद्वारेण चिन्त्यमानो जीवोऽत्र कारको यस्मात्सूत्रस्य गणधरः कारकः, एतच्च निर्युक्तिकृदेवोत्तरत्र वक्ष्यति 'ठिह अणुभावे' त्यादौ ॥ ४ ॥ साम्प्रतं करणव्याचिख्यासया नामस्थापने मुक्ला द्रव्यादिकरण निक्षेपार्थं निर्युक्तिकृदाह दव्वं पओगवीसस पओगसा मूल उत्तरे चैव । उत्तरकरणं वंजण अत्थो उ उवक्खरो सम्वो ॥ ५ ॥ १ बुध्येतेति त्रोटयेत् । २ वित्तबद्धं सिलोगादिबद्धं वा चू० । ३ अध्रुवेऽशाश्वते संसारे दुःखप्रचुरतायाम् ( दुःखप्रचुरे ) । ४ सण्णाकरणं गोसण्या करणं च कडकरणं अद्धाकरणं पेलुकरणादि चू० । Jain Education International For Personal & Private Use Only wwww.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 856