Book Title: Sutrakritangasutram Author(s): Shilankacharya, Publisher: Agamoday Samiti View full book textPage 5
________________ प्रयोजनपदं, प्रयोजनप्रयोजनं तु मोक्षावाप्तिः, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक् नोक्तः, तदुक्तम्-"शास्त्रं प्रयोजनं चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात् ॥१॥” इति समुदायार्थः ॥ अधुनाऽवयवार्थः । कथ्यते तत्र तीर्थ द्रव्यभावभेदाद्विधा, तत्रापि द्रव्यतीर्थ नद्यादेः समुत्तरणमार्गः, भावतीर्थ तु सम्यग्दर्शनज्ञानचारित्राणि, 18 संसारार्णवादुत्तारकत्वात् , तदाधारो वा सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्करास्तानत्वेति क्रिया । तत्रान्येषा-1 मपि तीर्थकरखसंभवे तद्वयवच्छेदार्थमाह–'जिनवरानि ति रागद्वेषमोहजितो जिनाः, एवंभूताश्च सामान्यकेवलिनोऽपि भवन्ति, तद्वयवच्छेदार्थमाह-वरा:-प्रधानाः चतुर्विंशदतिशयसमन्वितत्वेन, तान्नखेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्ट्रलेनोपकारिखात् , विशिष्टविशेषणोपादानं च शास्त्रस्य गौरवाधानार्थ, शास्तुः प्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः । अर्थस्य | सूचनात्सूत्र, तत्करणशीलाः मूत्रकराः, ते च खयंबुद्धादयोऽपि भवन्तीत्यत आह-गणधरास्तांश्च नखे ति, सामान्याचार्याणां गणधरखेऽपि तीर्थकरनमस्कारानन्तरोपादानाद्गौतमादय एवेह विवक्षिताः। प्रथमश्चकारः सिद्धाधुपलक्षणार्थो द्वितीयः समुच्चितौ । क्खाप्रत्ययस्य क्रियाऽन्तरसव्यपेक्षखातामाह-स्वपरसमयसूचनं कृतमनेनेति सूत्रकृतस्तस्य,महार्थववाद्भगवांस्तस्य,अनेन च सर्वज्ञप्रणीतखमावेदितं भवति । 'नियुक्ति कीर्तयिष्ये' इति योजनं युक्तिः-अर्थघटना, निश्चयेनाधिक्येन वा युक्तिनियुक्तिः-सम्यगर्थप्र-12 कटनमितियावत् ,निर्युक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धानामर्थानामाविर्भावनं,युक्तशब्दलोपानियुक्तिरिति, तां 'कीर्तयिष्यामि' अभिधाय इति ।। इह सूत्रकृतस्य नियुक्ति कीर्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षिप्तं,तच्च 'इहापसदे'त्यादिनेषदभिहितमिति, तदनन्तरं १ समः समुत्तरणमार्गः प्र. २ जिनेत्यनुक्त्वा जिनवरानिति वरत्वयुक्तजिनेत्युपादानं 000000000000000000000 Jain Education Internaconal For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 856