Book Title: Sutrakritangasutram Author(s): Shilankacharya, Publisher: Agamoday Samiti View full book textPage 6
________________ सूत्रकृताङ्गं शीलाङ्का चा-यवत्तियुतं ॥२॥ निक्षेपः, स च त्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति । तत्रौघनिष्पन्ने निक्षेपेऽङ्ग, नामनिष्पन्ने समयातु निक्षेपे सूत्रकृतमिति ॥१॥ तत्र 'तत्त्वभेदपर्यायैर्व्याख्ये'त्यतः पर्यायप्रदर्शनार्थ नियुक्तिकृदाह ध्ययने सूयगडं अंगाणं बितियं तस्स य इमाणि नामाणि । सूतगडं सुत्तकडं सूर्यगडं चेव गोण्णाई ॥२॥ सूत्रकृत्पसूत्रकृतमित्येतदङ्गानां द्वितीयं, तस्य चामून्यकार्थिकानि, तद्यथा-स्तम्-उत्पन्नमर्थरूपतया तीर्थकुझ्यः ततः कृतं ग्रन्थरचनया । योया: गणधरैरिति, तथा 'मूत्रकृत'मिति सूत्रानुसारेण तत्वावबोधः क्रियतेऽसिन्निति, तथा 'सूचाकृत'मिति खपरसमयार्थसूचनं सूचा सासिन्कृतेति, एतानि चास्य गुणनिष्पन्नानि नामानीति ॥ २॥ साम्प्रतं मूत्रकृतपदयोनिक्षेपार्थमाह व्वं तु पोण्डयादी भावे सुत्तमिह सूयगं नाणं । सण्णासंगहवित्ते जातिणिवद्धे य कत्थादी ॥३॥ नामस्थापने अनादृत्य द्रव्यसूत्रं दर्शयति-पोण्डयाइ'त्ति पोण्डगं च वनीफलादुत्पन्नं कार्पासिकं, आदिग्रहणादण्डजवालजादेग्रहणं, भावमूत्रं तु 'इह' असिन्नधिकारे सूचकं ज्ञानं-श्रुतज्ञानमित्यर्थः, तस्यैव स्वपरार्थसूचकलादिति । तच्च श्रुतज्ञानसूत्रं चतुर्की भवति, तद्यथा-संज्ञासूत्रं संग्रहमूत्र वृत्तनिबद्धं जातिनिबद्धं च, तत्र संज्ञामूत्रं यत् स्वसंकेतपूर्वकं निबद्धं, तद्यथा"जे छेए सागारियं न सेवे, सव्वामगंधं परिणाय णिरामगंधो परिवए" इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्कारः क्षेत्रज्ञा इत्यादि । संग्रहसूत्रं तु यत्प्रभूतार्थसंग्राहक, तद्यथा-द्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह इति, यदिवा 'उत्पादव्य-12 १सूयागडमिति वाच्ये दीर्घहखाविति बन्धानुलोम्येन हस्वता, तथा च न पर्यायैक्यं । २ भावसूत्रेण सूत्रानुसारेण निर्वाणपथो गम्यते चू० । ३ यश्छेकः स सागारिकं (मैथुनं ) न सेवेत, सर्वमामगन्धं परिज्ञाय निरामगन्धः परिप्रजेत् (आमं विशोधि गन्धमविशोधि) ४ उभए जं ससमए परसमए य चू० । 2099999999900 Jain Education International For Personal & Private Use Only w.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 856