Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 16
________________ सूत्रकृताङ्ग शीलाङ्काचार्ययवृत्तियुतं ॥७॥ अर्थस्य सूचनात्सूत्रं तेन सूत्रेण केचिदर्थाः साक्षात्सूत्रिता - मुख्यतयोपात्ताः, तथाऽपरे सूचिता - अर्थापत्याक्षिप्ताः साक्षादनुपादानेऽपि दध्यानयनचोदनया तदाधारानयन चोदनावदिति, एवं च कृला चतुर्दशपूर्वविदः परस्परं षट्स्थानपतिता भवन्ति, तथा चोक्तम् - " अक्खरलंभेण समा ऊणहिया हुंति मतिविसेसेहिं । तेऽविय मईविसेसा सुयणाण मंतरे जाण ॥ १ ॥ " तत्र ये साक्षादुपात्तास्तान् प्रति सर्वेऽपि तुल्याः, ये पुनः सूचितास्तदपेक्षया कश्चिदनन्तभागाधिकमर्थं वेत्यपरोऽसंख्येयभागाधिकमन्यः संख्येयभागाधिकं तथाऽन्यः संख्ये या संख्येयानन्तगुणमिति, ते च सर्वेऽपि 'युक्ता' युक्त्युपपन्नाः सूत्रोपाचा एव वेदितव्याः, | तथा चाभिहितम् - "तेऽविय मईविसेसे" इत्यादि, ननु किं सूत्रोपान्तेभ्योऽन्येऽपि केचनार्थाः सन्ति । येन तदपेक्षया चतुर्दशपू| र्वविदां षट्स्थानपतितत्त्रमुद्धुष्यते, बाढं विद्यन्ते, यतोऽभिहितम् - " पण्णर्वणिजा भावा अनंतभागो उ अणभिलप्पाणं । पण्णवणिआणं पुण अनंतभागो सुनिबद्धो ॥ १ ॥” यतश्चैवं ततस्ते अर्था आगमे बहुविधं प्रयुक्ताः - सूत्रैरुपात्ताः केचन साक्षात्केचिदथपच्या समुपलभ्यन्ते, यदिवा कचिदेशग्रहणं कचित्सर्वार्थोपादानमित्यादि, यैश्व पदैस्ते अर्थाः प्रतिपाद्यन्ते तानि पदानि प्रक|र्षेण सिद्धानि प्रसिद्धानि न साधनीयानि, तथाऽनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी शब्दार्थरचनाद्वारेण विदेहेषु नित्या भरतैरावतेष्वपि शब्दरचनाद्वारेणैव प्रति तीर्थकरं क्रियते अन्यथा तु नित्यैव । एतेन च 'उच्चरितप्रध्वंसिनो वर्णा' | इत्येतन्निराकृतं वेदितव्यमिति ॥ २१ ॥ साम्प्रतं सूत्रकृतस्य श्रुतस्कन्धाध्ययनादिनिरूपणार्थमाह १ अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि ॥ १ ॥ २ प्रज्ञापनीया भावा अनन्तभाग एवान| भिलाप्यानाम् । प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ १ ॥ Jain Education International For Personal & Private Use Only १ समयाध्ययने सूत्रनिरुक्तम् ॥७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 856