________________
सूत्रकृताङ्ग शीलाङ्काचार्ययवृत्तियुतं
॥७॥
अर्थस्य सूचनात्सूत्रं तेन सूत्रेण केचिदर्थाः साक्षात्सूत्रिता - मुख्यतयोपात्ताः, तथाऽपरे सूचिता - अर्थापत्याक्षिप्ताः साक्षादनुपादानेऽपि दध्यानयनचोदनया तदाधारानयन चोदनावदिति, एवं च कृला चतुर्दशपूर्वविदः परस्परं षट्स्थानपतिता भवन्ति, तथा चोक्तम् - " अक्खरलंभेण समा ऊणहिया हुंति मतिविसेसेहिं । तेऽविय मईविसेसा सुयणाण मंतरे जाण ॥ १ ॥ " तत्र ये साक्षादुपात्तास्तान् प्रति सर्वेऽपि तुल्याः, ये पुनः सूचितास्तदपेक्षया कश्चिदनन्तभागाधिकमर्थं वेत्यपरोऽसंख्येयभागाधिकमन्यः संख्येयभागाधिकं तथाऽन्यः संख्ये या संख्येयानन्तगुणमिति, ते च सर्वेऽपि 'युक्ता' युक्त्युपपन्नाः सूत्रोपाचा एव वेदितव्याः, | तथा चाभिहितम् - "तेऽविय मईविसेसे" इत्यादि, ननु किं सूत्रोपान्तेभ्योऽन्येऽपि केचनार्थाः सन्ति । येन तदपेक्षया चतुर्दशपू| र्वविदां षट्स्थानपतितत्त्रमुद्धुष्यते, बाढं विद्यन्ते, यतोऽभिहितम् - " पण्णर्वणिजा भावा अनंतभागो उ अणभिलप्पाणं । पण्णवणिआणं पुण अनंतभागो सुनिबद्धो ॥ १ ॥” यतश्चैवं ततस्ते अर्था आगमे बहुविधं प्रयुक्ताः - सूत्रैरुपात्ताः केचन साक्षात्केचिदथपच्या समुपलभ्यन्ते, यदिवा कचिदेशग्रहणं कचित्सर्वार्थोपादानमित्यादि, यैश्व पदैस्ते अर्थाः प्रतिपाद्यन्ते तानि पदानि प्रक|र्षेण सिद्धानि प्रसिद्धानि न साधनीयानि, तथाऽनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी शब्दार्थरचनाद्वारेण विदेहेषु नित्या भरतैरावतेष्वपि शब्दरचनाद्वारेणैव प्रति तीर्थकरं क्रियते अन्यथा तु नित्यैव । एतेन च 'उच्चरितप्रध्वंसिनो वर्णा' | इत्येतन्निराकृतं वेदितव्यमिति ॥ २१ ॥ साम्प्रतं सूत्रकृतस्य श्रुतस्कन्धाध्ययनादिनिरूपणार्थमाह
१ अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि ॥ १ ॥ २ प्रज्ञापनीया भावा अनन्तभाग एवान| भिलाप्यानाम् । प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
१ समयाध्ययने सूत्रनिरुक्तम्
॥७॥
www.jainelibrary.org