SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ दो चेव सुयक्खंधा अज्झयणाईच हुंति तेवीसं । तेत्तिसुदेसणकाला आयाराओ दुगुणमंगं ॥ २२॥ द्वावत्र श्रुतस्कन्धौ, त्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः, ते चैवं भवन्ति-प्रथमाध्ययने चखारो द्वितीये त्रयस्तृतीये चखारः एवं चतुर्थपञ्चमयोद्वौं द्वौ तथैकादशखेकसरकेष्वेकादशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवोद्देशनकालाः, एवमेते सर्वेऽपि त्रयस्त्रिंशदिति, एतच्चाचाराङ्गाड्विगुणमङ्गं, पत्रिंशत्पदसहस्रपरिमाणमित्यर्थः॥२२॥ साम्प्रतं सूत्रकृताङ्गनिक्षेपानन्तरं प्रथमश्रुतस्कन्धस्य नामनिष्पन्न निक्षेपाभिधित्सयाऽऽह- . निक्खेवो गाहाए चउब्विहो छविहो य सोलससु । निक्खेवो य सुयंमि य खंधे य चउब्विहो होइ ॥२३॥ इहायश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्थापनाद्रव्यभावरूपश्चतुर्विधो निक्षेपः, नामस्थापने प्रसिद्धे, द्रव्यगाथा द्विधा-आगमतो नोआगमतच, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृखा, नोआगमतस्तु त्रिधा-ज्ञशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता च| "सत्ततरू विसमे ण से हया ताण छह णह जलया । गाहाए पच्छद्धे भेओ छहोत्ति इककलो ॥१॥" इत्यादिलक्षणलक्षिता | पत्रपुस्तकादिन्यस्तेति, भावगाथापि द्विविधा-आगमनोआगमभेदात् , तत्राऽऽगमतो गाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्वि-| दमेव गाथाख्यमध्ययनम् , आगमैकदेशवादस्य । पोडशकस्यापि नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्र नाम १ सप्त तरवः (.चतुर्मात्रा गणाः ) अष्टमः (गुरुः ) विषमे न (जगणः,) तस्याघातकास्तासां षष्ठे नही ( चतुर्लघवः) जो वा । गाथायाः पश्चार्थे भेदः षष्ठ एककल इति ॥१॥ 2000000000029 9929899393029 Jain Education Internal For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy