________________
सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं
॥ २५ ॥
बन्धः क्षणयोगः स विद्यते येषां ते क्षणयोगिनः, क्षणमात्रावस्थायिन इत्यर्थः तथा च तेऽभिदधति - स्वकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरखभावो वा १, यद्यविनश्वरस्ततस्तद्वयापिन्याः क्रमयौगपद्याभ्यामर्थक्रियाया अभावात | पदार्थस्यापि व्याप्यस्याभावः प्रसजति, तथाहि - यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति, स च नित्योऽर्थक्रियायां प्रवर्तमानः क्रमेण वा प्रवर्तेत यौगपद्येन वा १, न तावत्क्रमेण, यतो ह्येकस्या अर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा न वा ?, यदि विद्यते किमिति क्रमकरणं ?, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते न वा १, यदि क्रियते किं पूर्वस्वभाव परित्यागेना परित्यागेन वा ?, यदि परित्यागेन ततोऽतादवस्थ्यापतेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाभावात्किं सहकार्यपेक्षया ?, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्षते, तदयुक्तं यतः - 'अपेक्षेत परं कश्विद्यदि कुर्वीत किञ्चन । यदकिञ्चित्करं वस्तु, किं केनचिदपेक्ष्यते १ ॥ १ ॥ अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणस्वभावो न विद्यते, तथा च सति स्पष्टैव नित्यताहानिः, अथासौ नित्यो यौगपद्येनार्थक्रियां कुर्यात् तथा सति प्रथमक्षण एवाशेषार्थक्रियाणां करणात् द्वितीयक्षणेऽकर्तृवमायातं, तथा च सैवानित्यता, अथ तस्य तत्स्वभावत्वात्ता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदसाम्प्रतं, कृतस्य करणाभावादिति, किंच - द्वितीया दिक्षणसाध्या अप्यर्थाः प्रथमक्षण एव प्राप्नुवन्ति, तस्य तत्स्वभा| वखात्, अतत्स्वभावले च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयौगपद्याभ्यामर्थक्रिया विरहान्न खकारणेभ्यो नित्यस्योत्पाद | इति । अथा नित्यस्वभावः समुत्पद्यते, तथा च सति विघ्नाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकलं, तथा चोक्तम्- “जातिरेव हि भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन च १ ॥ १ ॥ ननु च सत्यप्यनित्यते यस्य
Jain Education International
For Personal & Private Use Only
१ समया
ध्ययने
अफवालदिबौद्धाः
॥ २५ ॥
www.jainelibrary.org