Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak Author(s): Mangalvijay Publisher: Hemchand Shah View full book textPage 7
________________ [ २ ] दाक्षिणात्यो महाभागो भूतपूरी निवासकः । सुदर्शनाऽभिधेयश्च ग्रन्थं च कृतवान् खलु ॥ १ ॥ कल्लोलिनी च यस्याख्या वर्तते पुस्तकस्य च । बहु भ्रान्तिश्च जैनेषु कृता तेन मनीषिणा ॥ २ ॥ तदर्थं क्रियते यत्रः दर्शनभ्रमशोधकः । कासांचिच्चैव भ्रान्तीनां निरसनं विधीयते ॥ ३ ॥ जैनधर्मविषयक मान्यता तेन या दर्शिता सा अक्षरशोऽत्र लिख्यते । १- आर्हतोऽपि जगत्सर्वं कार्यकारणरूपेण नित्यानित्य सत्यासत्य भिन्नाभिन्नात्मकम् । २ - आत्मानः कर्माऽनुगुण शरीर परिणाम परिमाणाः । ३ – अनादिसंसारः । ४—मलधारणाऽऽत्मज्ञानादिभिः प्रकृतिविनिर्मोकादूर्ध्वगति प्राप्तिर्मोक्ष इति जैन सिद्धान्तस्तेन प्रतिपादितः । आर्हतेति च संप्रोच्य यदुक्तं तदसत्यकम् । जैनशास्त्रे च तादृक्षी मान्यता नैव विद्यते ॥ ४ ॥ कस्य चिज्जैन शास्त्रस्य दत्तं नैव प्रमाणकम् । अप्रमाणिक वादोऽयं जैनसिद्धान्तसंमतः ॥ ५ ॥ जैनैस्तादृक् च नो प्रोक्तं कथं मिथ्या विधीयते । मिथ्यावाद प्रवक्तव्ये दोषाऽवकाशता भवेत् ॥ ६ ॥ जगत्सवं च जैना वै गदन्ति नैव तादृशम् । मन्यते ॥ ७ ॥ अपितु द्रव्यपर्यायरूपं जैनेश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22