Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak
Author(s): Mangalvijay
Publisher: Hemchand Shah

View full book text
Previous | Next

Page 19
________________ [ १४ ] पुराणे ते च सूत्रे द्वे अर्वाचीना च संहिता। न्यायसूत्रं ततः पश्चात् कथं साम्यं विभाव्यते ॥ ११७ ॥ वैदकरूपता तत्र नैक रोगचिकित्सनम् । अनेकारंभसंयुक्तं चरकं परिभाव्यताम् ।। ११८ ।। तयोः केन प्रकारेण साम्यत्वं तेन साधितम् । तत्तु स एव जानाति बुद्धि शून्यत्व योगतः ।। ११६ ।। विना विचार्य वक्तव्यं पण्डितानां न शोभते । शंकरस्वामिभाष्यं हि यथा हास्यास्पदं महत् ॥ १२० ॥ जैनदृष्टिमविज्ञाय लिखने दोषता बहु । आधुनिकाश्च विद्वांसः हास्यं कुर्वन्ति सर्वथा ॥ १२१ ।। कीयत्य ज्ञानता तेषां जैनदृष्टिनिरासने । प्रतिपादनशैली च प्रामाण्यरहिता सदा ॥ १२२ ।। अनन्तावयवा-जीवे नो मता जैनदर्शने । कथं शंकर स्वाम्यादि संन्यासिना निरूपिताः ॥ १२३ ॥ त्रिविधजीवमेदाश्च नित्य सिद्धादि रूपतः । सर्वत्र जैनशास्त्रेषु तादृक्षानैव कीर्तिताः ॥ १२४ ॥ पुद्गलास्तित्व कायानां षोढ़ात्वं तैनिरूपितम् । चत्वारि चैव भूतानि स्थावरं जंगमं तथा ॥ १२५ ॥ खपुष्पसदृशं जैने तत्सर्वं परिकीर्तितम् । जैनदर्शनज्ञानस्य सर्वथा तत्राभावता ।। १२६ ।। धर्मास्तिकायतत्त्वस्य व्याख्याऽपि तादृशी खलु । अधर्मास्तित्वकायत्वं यत्र तत्रैव मोक्षता ।। १२७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 17 18 19 20 21 22