Page #1
--------------------------------------------------------------------------
________________
શ્રી યશોવિજયજી
જૈન ગ્રંથમાળા જે દાદાસાહેબ, ભાવનગર,
કેટhe%e-2eo : IPછે
542009
-पण्डित-प्रत्युत्तरम्
શ્વ માવઠ્ઠ:
-કૂવિના:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
॥ अर्हम् ॥ नमोनमः श्री प्रभुधर्मसूरये ।
सुदर्शन- पण्डित प्रत्युत्तरम्
वा
भूमशोधकः
वीर सं० २४६७
000000000
कर्त्ता
न्यायविशारद-न्यायतीर्थ - उपाध्याय श्री मंगलविजयजी महाराज
प्रकाशन
हेमचन्द शबचन्द शाह
कल त्ता।
प्रथमावृति १०००
धर्म सं० १६
विक्रम सं० १६६७
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
BHANDIIIIIIIIIIIIIIIIIIIIIII
EHINDIIIIII
DIIIIIIIIIIIII
BIDIDIUMIIIIIII
PIRITHIMIRE
॥ ॐ अहं ॥ उल्लासकल्लोलिनी कर्त्त महाशयानां सुदर्शन ॥ पंडितानां जैन-तत्त्व-विषयक विचारप्रदर्शकोल्लासकल्लोलिन्या प्रत्युत्तरम् वा भ्रमशोधक ग्रन्थस्य संस्कृत पद्यमयस्य
रचयिता जगत्पूज्य शास्त्रविशारद जैनाचार्य murg श्री विजयधर्मसूरीश्वर शिष्य न्याय___तीर्थ न्याय-विशारदोपाध्याय
मङ्गलविजयः
IUIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIII
IIIIIIIIIIISin
EHIIIIIIIIIIIIIIIII
INDIHOTililill
-IIIIIIIIIIII
A
BIIIIIIIIIIIIII
IIIIIIIIIIIIIIND
HINDIH
AHIRAINRHMIRMILAIMHRILLI
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
मुद्रावणा साहाय्यम्
M
W
बोथरा-कुल-चन्द्रण, . उदयचन्द्र चारुणा। धैर्योदार्यगुणाढ्य न, धर्मकार्यविधायिना ॥१॥ कल्लोलिन्याश्चभ्रान्तिनां, शोधको भ्रमशोधकः । तस्य मुद्रापणे द्रव्य-साहाय्यं तेन स्वीकृतम् ॥२॥ गुरूणामुपदेशस्तु, शिरोधार्य सदा तव । ग्रन्थप्रचारकर्त णां, ज्ञानाऽऽवारक्षयः फलं ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
॥ अहम् ॥ नमोनमः श्री प्रभुधर्मसूरये।
सुदर्शन-पण्डित-प्रत्युत्तरम्
भ्रमशोधक:
मंगलाचरणम् जैन जयति शासनम्
सुशान्ति मार्गे वरयान तुल्यम्, प्रणाशकं सर्वदुःदिदर्पम् । मतं जिनानां शरणं बुधानाम्,
नमामि नित्यं त्रिजगत्प्रधानम् ॥ १॥ वन्दित्वा पार्श्वदेवेशं धर्मसूरिं गुरु तथा।
सुदर्शनस्य भ्रान्तीनां निरासः क्रियते मया ॥२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
[ २ ] दाक्षिणात्यो महाभागो भूतपूरी निवासकः । सुदर्शनाऽभिधेयश्च ग्रन्थं च कृतवान् खलु ॥ १ ॥ कल्लोलिनी च यस्याख्या वर्तते पुस्तकस्य च । बहु भ्रान्तिश्च जैनेषु कृता तेन मनीषिणा ॥ २ ॥ तदर्थं क्रियते यत्रः दर्शनभ्रमशोधकः । कासांचिच्चैव भ्रान्तीनां निरसनं विधीयते ॥ ३ ॥ जैनधर्मविषयक मान्यता तेन या दर्शिता सा अक्षरशोऽत्र
लिख्यते ।
१- आर्हतोऽपि जगत्सर्वं कार्यकारणरूपेण नित्यानित्य सत्यासत्य भिन्नाभिन्नात्मकम् ।
२ - आत्मानः कर्माऽनुगुण शरीर परिणाम परिमाणाः । ३ – अनादिसंसारः ।
४—मलधारणाऽऽत्मज्ञानादिभिः प्रकृतिविनिर्मोकादूर्ध्वगति प्राप्तिर्मोक्ष इति जैन सिद्धान्तस्तेन प्रतिपादितः ।
आर्हतेति च संप्रोच्य यदुक्तं तदसत्यकम् । जैनशास्त्रे च तादृक्षी मान्यता नैव विद्यते ॥ ४ ॥ कस्य चिज्जैन शास्त्रस्य दत्तं नैव प्रमाणकम् । अप्रमाणिक वादोऽयं जैनसिद्धान्तसंमतः ॥ ५ ॥ जैनैस्तादृक् च नो प्रोक्तं कथं मिथ्या विधीयते । मिथ्यावाद प्रवक्तव्ये दोषाऽवकाशता भवेत् ॥ ६ ॥ जगत्सवं च जैना वै गदन्ति नैव तादृशम् । मन्यते ॥ ७ ॥
अपितु द्रव्यपर्यायरूपं जैनेश्च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
कार्यकारणरूपं च प्रोक्तं न जैनशासने । अपितु बौद्ध राधान्तः कुतोऽत्र परिदर्श्यते ॥८॥ नित्यानित्यत्वरूपं च बौद्धर्न स्वीकृतं कदा। कार्यकारणकं यत्र तत्र नित्यादिकं नहि ॥४॥ सर्वथाऽसत्यरूपं तु खपुष्पं परितिष्ठति । शून्यवादिगृहे तच्च अन्यत्र नैव संमतम् ॥ १०॥ परस्परं च कार्यकारणता क्षणिके मता। जैनेषु नैव तादृक्षं सर्वथा संमतं खलु ॥ ११॥ जैन बौद्धस्य सिद्धान्तावलोकनं कृतं न चेत् । कथं तर्हि तदीयानां मान्यता दर्शिता त्वया ॥ १२ ॥ मेदज्ञानं विना कृत्वा लेखिनी चोद्यता तव । अतएव च हास्यावकाशता जायते नृणाम् ॥ १३ ।। जड़चेतन मध्ये च सर्वथा भिन्न रूपता। अनादिकालिकी ज्ञेया तत्र नोऽभिन्नतामता ॥ १४॥ जड़चेतन रूपं च जगज्जैनैऽनिगद्यते । तत्र खपुष्प सादृक्षी अभिन्नता प्रकीर्तिता ॥१५॥ उपयोगस्वरूपाः स्युः आत्मानो जैनदर्शने । कर्मानुगुण इत्यादि जैनेषु नैव सर्वथा ॥१६॥ एकान्तकर्मवादश्च मीमांसकेषु संमतः। पञ्चकारणवादोहि संमतो जैनशासने ॥ १७॥ सिद्धात्मसु च नो तादृक् कर्माभावाच्च सर्वथा।
शरीरस्यापि नो सत्ता तत्र केनापि रूपतः ॥ १८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
[ ४ ] अतस्तल्लक्षणं नैव सिद्धात्मनि प्रयुज्यते । अव्याप्त्यादिक दोषेण दुष्टं तत्परिज्ञायताम् ॥ १६ ॥ मलधारणद्वारा च मुक्तिों जैनशासने। सम्यग्ज्ञानक्रियाभ्यां च मुक्तिस्तु जैनसंमता ॥२०॥ मलधारणकर्त्तव्ये यदि मुक्तिश्च संभवेत् । तदाऽघोरि मनुष्याणां प्रथमा परिजायते ॥ २१ ॥ मलधारणरूपं तत् कथं मुक्तेश्च कारणम् । निरूपितं त्वया जैने वन्ध्यापुत्रसमं खलु ।। २२ ॥ निर्मोकता प्रकृत्याश्च चोर्ध्वगतौ न हेतुता। उर्ध्वगप्राप्ति मात्रत्वं मोक्षो नैवाभिधीयते ॥ २३ ॥ प्रकृतेर्मान्यता चैव सांख्यदर्शनसंमता। महत्तत्त्वादितत्त्वानामुत्पत्ति कारणं खलु ॥ २४ ॥ महत्तत्त्वादितवानां वेदान्तसांख्यमान्यता। जैनेषु प्रकृत्यादीनि तत्त्वानि सन्ति नैव च ॥ २५ ॥ कृत्स्नकर्मक्ष्याच्चैव मोक्षस्तु जैनसंमतः । अनन्तसुखसंवेद्य ज्ञानादिकं तथैव च ॥ २६ ॥ सर्वथाऽनादि संसारः जैनैनैव निगद्यते । द्रव्यतोऽनादि संसारः पर्यायेण न संमतः ॥ २७ ॥
१ प्रोक्तं च तत्त्वार्थ सूत्रे प्रथमाऽध्याये प्रथमसूत्रं सम्यादर्शनज्ञान चारित्राणि मोक्षमार्ग इति ।
२ उर्ध्वगति प्राप्ति ।
३ ज्ञानाद्यनन्त चतुष्टय रूपत्वे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
[ ५ ] किंच सिंहावलोकं च कार्यकारणतादिके। क्रियते जड़चैतन्ये घटते नैव ताहशम् ॥ २८ ॥ चैतन्यस्य न हेतुत्वं जड़तायां विभाव्यते । कार्यताऽपि न तत्रैव केन रूपेण संमता ॥ २६ ।। जड़ोत्पत्तश्च हेतुत्वं चैतन्ये नैव संभवेत् । कार्यताऽपि न तत्रैव केन रूपेण संमता ॥ ३०॥ यदि चैतन्यतत्त्वेच कार्यता मन्यते मया। तदा जड़स्य कार्यत्वे चैतन्ये जड़ता भवेत् ॥ ३१ ।। यादृशं कारणं यत्र कार्य ताइक्च जायते । जड़कारणतायां वै चैतन्ये जड़ता खलु ॥ ३२॥ यदि चैतन्यतत्त्वेषु नित्यत्वं नैव मन्यते । तदा जैनैः कथं तर्हि योगादिकं च पाल्यते ॥ ३३ ॥ अत्यन्ताभावसम्बन्धो जड़चैतन्योयोर्मतः । कार्यकारणता तर्हि कथं जैनेः प्रदर्श्यते ॥ ३४॥ दानतपः किमर्थं वै क्रियते फललिप्सुना। वन्ध्यापुत्रसमा चैव तादृशी मान्यता जिने ।। ३५ ।। कथं मिथ्या समारोपः त्वया जैने विधीयते । जैनदर्शनज्ञानस्य शून्यता त्वयि भाव्यते ।। ३६ ।। जैनदर्शनशास्त्राणामभ्यासं च कृतं न चेत् । खण्डनं च कथं तर्हि विदुषा परितन्यते ॥३७॥ शुष्ककथाऽनुसारित्वं भवतां नैव युज्यते । धर्मवादाऽनुसारेण वक्तव्यं हि भवादृशैः ॥ ३८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
विमर्शकं समुद्दिश्य लिखितं भवता खलु । तत्सवं युक्तिहीनत्वं प्रमाणेन प्रदर्श्यते ।। ३६ ।। वेदविषयज्ञानस्य भवतोऽभावश्च सर्वथा। शंकरादिकविज्ञानां कृतिमुद्दिश्य तत्त्वतः ।। ४॥ लिखितं स्वीय सद्ग्रन्थे नूतनं न कृतं त्वया । महावीरत्वनामाऽऽख्यः जैनधर्म प्रवर्तकः ॥ ४२ ॥ प्रतिमादि गुणैर्युक्तः आद्यस्तद् धर्मदेशकः । अपरो नैव ज्ञातव्यः एवकारेण बोध्यते ।। ४२ ।। कूपमण्डूकता तेन वाक्येन परिदशिता। नहि स्वकीय सिद्धान्तः स्वयं कदाऽपि वीक्षितः ॥४३॥ ऋगवेदादि शास्त्रेषु मंत्रा जैनत्वद्योतकाः । शतशः परितिष्ठन्ति नेत्रमुन्मूल्य दृश्यताम् ॥ ४४ ॥ भृषभादिजिनेन्द्राणां सुमतिजिनस्वामिनाम् । श्री श्रेयांसप्रभूणां चारिष्टनेमिजिनस्य वै ॥ ४५ ॥ वर्धमानमहावीरप्रभूणां नामपूर्वकाः। बाढं मंत्राश्च तिष्ठन्ति त्वच्छास्त्रं दृश्यतां त्वया ॥४६॥ एवं तीर्थंकराणां च भरतादि चक्रवर्तिनाम् । मंत्राणां विद्यमानेऽपि कथमाधः स देशकः ॥४७॥ प्रथम आदिदेवः स्यात् सुमतिश्च पञ्चमो मतः ।
श्रीश्रेयांसप्रभुश्चैव एकादशतमः खलु ॥४८॥ १ शंकराचार्यादि। २ तेषु कतिचिच्छलोका जैनत्व थोतकाः सन्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
[
]
द्वाविंशतितमः
७
स्मृतः ।
चतुर्विंशतिसंख्यकः ॥ ४६ ॥
अरिष्टनेमिनाथश्च वर्धमानजिनेन्द्रश्च वर्धमानस्य पूर्वेऽपि त्रयोविंशतिसंख्यकाः । तेषां वेदेषु नामानि कतिचित्सन्ति पूज्यतः ।। ५० ।। कथं तर्हि महावीरः जैने चाद्यप्रवर्तकः । अतो विचार्य वक्तव्यं परमन्तव्यतत्त्वकम् ।। ५१ ।। श्रीमद् भागवते ग्रन्थे योगवाशिष्टशास्त्रके । महाभारतपौराणे श्लोका जैनत्व द्योतकाः ।। ५२ ।। वेदरहस्यग्रन्थे च व्याख्याताः कतिचिन्मया । ततोऽपि ते च ज्ञातव्याः भ्रान्तिनिरासकांक्षिणा ॥ ५३ ॥ वेदात्प्रागपि नो चेत्ते तर्हि तन्नामता कथम् । अतस्ततोऽपि प्राचीनाः सर्वे तीर्थंकरा मताः ॥ ५४ ॥ अनादिता च वेदेषु यदि त्वया निगद्यते । दोषाऽवकाशता तत्र प्रत्यक्षेण विलोक्यताम् ॥ ५५ ॥ ऋषभादिप्रभूणां च सादित्वं स्वीकृतं समैः । कथं तेऽपि समायाताः अनादि वेद शास्त्र के ॥ ५६ ॥ तद्दोषस्य निरासाय तेषां यदि च नित्यता । तदा तेषां पितॄणां च पुत्राणां संभवः कथम् ॥ ५७ ॥ चतुर्विंशति तीर्थंकराणां च स्वीकृतिर्यदि । तदा तेषु च मध्ये वै प्राथम्यमादिनाथके ॥ ५८ ॥ श्रीमद्भागवते चैव अतएव निरूपितम् ।
एकादशसु स्कन्धेषु ग्रन्थं निष्कास्य दृश्यताम् ॥ ५६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
[ ८ ] तहिं कथं महावीरे प्रथमं तत्प्रवर्तनम् । भवद्भिलिखितं तद्धि युक्तिप्रमाणशून्यतः ॥ ६०॥ अन्तिमस्तु महावीरो भगवान् जैनसम्मतः । यद्याद्यश्च महावीरः मन्यते हि भवादृशैः ॥ ६१ ॥ तदा वेदादि शास्त्रेषु मृषभाद्याः कथं मता। जैनशास्त्रेषु सर्वत्र क्रमतः प्रतिपादिताः ॥ ६२ ॥ यदि तत्र न प्रामाण्यं वेदेषु तत्कथं भवेत् । युक्तिप्रमाणराहित्ये वक्तव्ये न विवेकता ।। ६३ ।। एतत्कालं समुदृश्य प्रवर्तकत्वमुच्यते । तदा त्वयाऽपि मन्तव्यं आद्यत्वमृषभे जिने ॥ ६४ ॥ महावीरोऽन्तिमो ज्ञेयः युक्तिः युत्त्या विचारणे । असंबन्धत्वदोषो हि अतएव निवर्तते ।। ६५ ॥ अपेक्षया च प्रोक्तं तत् विवादस्तत्र नो भवेद् । अथवाऽनादिता जैने पारंपर्यानुयोगतः ॥ ६६ ॥ आस्तिकनास्तिक्य चर्चा वादोऽपि नैव चर्चितः। परन्तु हार्दिको भावो वेदाऽनुयायिनस्तव ।। ६७ ॥ वेदाऽनुयायि व्यक्तौ च यद्यास्तिक्यं निगद्यते । तदा जैमिनि भक्ता ये घोरहिंसाविधायकाः ॥ ६८ ॥ त एव चास्तिका ज्ञेया वेदशास्त्रावलम्बतः । ये वेदविहिता यज्ञाः कुर्वन्ति ते च सर्वदा ॥ ६ ॥ वरं वराकाश्चार्वाकाः ते तु प्रगट नास्तिकाः । वेदोक्तितापसच्छमच्छन्नं रक्षो न जैमिनिः ॥ ७० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
[ह]
वेदे हिंसात्व प्राबल्यं मखाऽनेक विधानतः । गोमेधनरमेधाऽश्वमेधादीनां निरूपणात् ॥ ७१ ॥ जलस्थलचराणां च जीवानां वै विधानकम् । यज्ञार्थं परिदृश्यते अकुर्वन् ते तथैव च ॥ ७२ ॥ न तु सांख्यादि मन्तव्ये वेदान्तिके च नो तथा । किन्तु मीमांसकैः सर्वैः शाक्तानुयायिभिस्तथा ॥ ७३ ॥ त एव चास्तिका वाच्याः भवद् वेदानुसारतः । नास्तिकाश्च परे सर्वे वेदहिंसानिषेधकाः ॥ ७४ ॥ पाणिनिसूत्रयोगेन आस्तिक्यं यदि चर्च्यते । आत्मस्वर्गादि मन्तॄणां मोक्षतत्त्वानुगामिनाम् ॥ ७५ ॥ सर्वेषा मपि तेषां वै सांख्यदर्शनकादीनाम् । आस्तिक्यं विद्यते युक्त्या शान्तचित्तेन बुध्यताम् ॥ ७६ ॥ ततश्च नास्तिक वादोऽपि चार्वाके शोभते सदा । न तु सांख्यादिके स्वान्ते बोद्धादिकविभागके ।। ७७ ।। प्रोक्तश्च नर्मदाशंकर कविना
नास्तिक्यं वेद धर्मे जिनवर सुमते सर्वमिथ्यात्वभावः । कौसंग्यं चौद्धवीये भुवने सुविदिते वैष्णवेऽनाश्रयत्यं ॥ सामाजेऽनार्यता यत्प्रचलितपरमं म्लेच्छके काफरत्वं । सर्वाधःपातकारी प्रसरति भयदो भारते भेद भावः । ७८ । द्वेष बुद्ध्या परेषां वै नास्तिक्यं नैव जल्प्यताम् । यदि विशुद्धरूपेण आस्तिक्यं चर्च्यते त्वया ॥ ७६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
[ १० ]
तदा केवल जैनेषु अहिंसा शुद्धयोगतः । आस्तिक्यं परितिष्ठेत अन्यत्र नाममात्रकम् ॥ ८० ॥ अहिंसादि यमादीनां नान्यत्र सम्भवः खलु । एकान्तनित्यतावादे अनित्यैकान्तवादके ॥ ८१ ॥ भवादृशाश्च विद्वांशः प्रज्ञाशक्तिसमन्विताः । परेषां भ्रांति गर्त्तेषु पातयन्ति कथं नु भो ॥ ८२ ॥ यदि तत्कार्यकर्त्तव्ये पुरुषार्थः प्रयुज्यते । तदा तत्प्रतिकाराय लेखनी चोद्यता मम ॥ ८३ ॥ अतएव च सन्मार्गो गोप्तव्यो न भवादृशैः । परलोकादि मन्तारः आस्तिकाश्च समे मताः ॥ ८४ ॥
श्रुतकेवलित्व पदवी न भवेत्
श्रुतकेवलिता पदवी जैनेषु नैव कीर्त्तिता । । दृष्टिव दस्य पाठेन अपितु श्रुतकेवली ॥ ८५ ॥
तथा तत्पूर्णपाठेन देशना केवली समा । यत्र श्रुतस्य पूर्णत्वं स एव श्रुतकेबली ॥ ८६ ॥ जैनदर्शनज्ञानस्य
शून्यत्वात्कल्पितं तथा ।
नैव युक्ति प्रमाणानां स्वल्पत्वं तत्र विद्यते ॥ ८७ ॥
प्रीतिसंपादकत्वतः ।
अहिंसाधर्म साधने ॥ ८८ ॥
देवमनुष्यजीवानां
इति हेतुर्न वक्तव्यः
१ तत्रैव श्रुतकेवलिता मता ।
२ शुद्धात्म स्वरूप प्रकाशकत्व देतौ तु ताह दोषो नास्त्येव कुतो -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
[ ११ ] अहिंसासंयमे चैव तपो रूपे च धर्मता। आत्म स्वरूपता तत्र हेतुत्वे न विधीयते ॥ ८ ॥ यस्य धर्मे सदा स्वान्तं नमन्ति तत्र देवता। ततो बाह्य लाभः स्यादुपद्रवस्य शान्तिता ॥१०॥ अपरेषां तु का वार्ता देवानां नमने सति । परे च नामिता एव इति मनसि बुद्धयताम् ।। ६१ ॥ जैनशास्त्रविरुद्धं ये मन्यन्ते पक्षपातिनः। देवप्रियैर्नरैः पूज्याः ते नो ज्ञयाः कदाचन ॥ १२ ॥ तं नो देवा नमस्यन्ति असन्मार्गावलम्बतः । पलादास्तान्नमस्यन्ति न तु विशुद्धदेवताः॥६॥ वेदविहितहिंसायाः कारणं श्वसुरं प्रति । जामातारो नमस्यन्ति इत्यपि नैव युक्तिमत् ॥ १४ ॥ यज्ञक्रियाविधानेन देवांश्च प्रीणयन्ति ते। इति मिथ्या वचश्चैव श्रोतव्यं नैव कहिचित् ॥६५॥ देवपूजास्वरूपश्चेत् यज्ञो हिंसानिषेधकः । इत्यर्थे चैव कर्तव्ये विवादो विद्यते नहि ॥६६॥ पश्वादिहोमरूपश्च किन्तु यज्ञः प्ररूपितः । अतोऽहिंसा स्वरूपश्च यज्ञो नैव कदाचन ॥६७ ।।
यमादि योगांगद्वाराऽऽगम्यमान नूतनकर्मनिरोधेन पुरातनस्य निर्जरया शुद्धाऽऽत्मस्वरूपं प्रकटीयते शुद्धात्म प्रकाशत्व हेतौ तु तादृग् दोषो नास्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
[ १२ ]
अबध्यादिज्ञाननिरूपणे मिथ्यारूपता प्रदश्यते
अवध्यादिक ज्ञानानां शुद्धं रूपं न कीर्तितम् । पारिभाषिकशब्दानां सर्वथा ज्ञानशून्यतः॥१८॥ अतएव च औनानां समीपे पठनं वरम् । पश्चात् खलु प्रवक्तव्ये दोषता नैव संभवेत् ॥ ६ ॥
अवधिज्ञाननिरूपणंअनुभवानुसारेण अस्माकं बोधता च या। अवधिरूपज्ञानं तत् इति तेषां मतिः किल ॥१०॥
मनःपर्यायनिरूपणंपठनानन्तरं चान्याऽभिप्रायस्य वेदनम् । मनः पर्यायज्ञानं तत् अनैरित्यपि मन्यते ।। १०१ ॥ वन्ध्यापुत्रस्वरूपं तत् सुदर्शनैर्निरूपितम् । सर्वथा मानशून्यत्वे निरूपणं न युज्यते ॥ १०२ ॥ अवध्यादिकज्ञानानां स्वरूपं ज्ञानबिन्दुषु । तत्त्वार्थसूत्रवृत्यादौ विशेषावश्यके खलु ।। १०३ ।। नन्दिसूत्रादिके चैव जैन तत्त्व-प्रदीपके । एवमनेकशास्त्रषु निरूपितं विशेषतः ॥ १०४ ॥ अवलोकं विना कृत्वा शंकरस्वामिवत्त्वया। यदि च लिख्यते विद्वन् उत्तरं तु मीलिष्यति ॥ १०५ ।। स्थानांगसूत्रकृत्सूत्रे अंगाख्ये प्रकीर्तिते ।
सुधर्मस्वामि संहब्धे श्रुत्वा प्रभुमुखाग्रतः॥ १०६ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
[ १३ ] युक्तिप्रमाणपूर्वेण व्याख्यातं शीलसुरिभिः। शंका समाधिता तत्र दर्शिता वै प्रमाणतः ।। १०७ ।। सूत्रकृत्सूत्र मध्येच सांख्यादि दर्शनं तथा । आदिदेवोपदेशश्च वैतालीय विभागके ।। १०८ ।। नरकस्त्रीविभक्तिश्च नारक दुःखवीक्षणम् । विशेषतोऽत्र संप्रोक्तं सार्वीय दृष्टिवेदिभिः ॥ १०६ ।। अन्यमतीय प्रश्नाश्च प्रोक्ता वै चेन्द्रभूतिना। उत्तराः शमभावेन कीर्तिता जिनभास्करैः ।। ११० ।। अनेकवस्तुबोधश्च स्पष्टरूपेण जायते । बोधाच्चारित्रसंप्राप्तिः ततः कर्मक्षयो ध्रुवम् ॥ १११ ।। स्थानांगे चैकमारभ्य दशपर्यंतवस्तुनः । त्रैकालिकपदार्थानां तन्मध्ये च निरूपणम् ।। ११२ ॥ आक्रोशलेशता नैव मोहाभावे च सर्वथा। अध्यात्मवादप्राचुर्यं धर्म भाव प्रकाशकः ।। ११३ ॥ न्यायशास्त्रानु कारित्वं चरकस्य तथैव च। इत्युक्तिर्बालिशानां च नैकट्य परिशोभते ॥ ११४ ॥ एकदेशीयता तत्र अत्रैव सार्वदेशिकम् । तत्र शुष्कविवादश्च अत्र चाध्यात्मदेशना ॥ ११५ ॥ तस्य साम्यत्व संवादः कदाचिन्नैव युज्यते । हस्तिरासभयोश्चैव कथं साम्यं निगद्यते ॥ ११६ ।।
१ अध्ययने ।
२ गौतमीय न्यायदर्शनानुकरणं । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
[ १४ ] पुराणे ते च सूत्रे द्वे अर्वाचीना च संहिता। न्यायसूत्रं ततः पश्चात् कथं साम्यं विभाव्यते ॥ ११७ ॥ वैदकरूपता तत्र नैक रोगचिकित्सनम् । अनेकारंभसंयुक्तं चरकं परिभाव्यताम् ।। ११८ ।। तयोः केन प्रकारेण साम्यत्वं तेन साधितम् । तत्तु स एव जानाति बुद्धि शून्यत्व योगतः ।। ११६ ।। विना विचार्य वक्तव्यं पण्डितानां न शोभते । शंकरस्वामिभाष्यं हि यथा हास्यास्पदं महत् ॥ १२० ॥ जैनदृष्टिमविज्ञाय लिखने दोषता बहु । आधुनिकाश्च विद्वांसः हास्यं कुर्वन्ति सर्वथा ॥ १२१ ।। कीयत्य ज्ञानता तेषां जैनदृष्टिनिरासने । प्रतिपादनशैली च प्रामाण्यरहिता सदा ॥ १२२ ।। अनन्तावयवा-जीवे नो मता जैनदर्शने । कथं शंकर स्वाम्यादि संन्यासिना निरूपिताः ॥ १२३ ॥ त्रिविधजीवमेदाश्च नित्य सिद्धादि रूपतः । सर्वत्र जैनशास्त्रेषु तादृक्षानैव कीर्तिताः ॥ १२४ ॥ पुद्गलास्तित्व कायानां षोढ़ात्वं तैनिरूपितम् । चत्वारि चैव भूतानि स्थावरं जंगमं तथा ॥ १२५ ॥ खपुष्पसदृशं जैने तत्सर्वं परिकीर्तितम् । जैनदर्शनज्ञानस्य सर्वथा तत्राभावता ।। १२६ ।। धर्मास्तिकायतत्त्वस्य व्याख्याऽपि तादृशी खलु ।
अधर्मास्तित्वकायत्वं यत्र तत्रैव मोक्षता ।। १२७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
[ १५ ]
एतत्सर्वस्य दुष्टत्वं तत्त्वाऽऽख्याने प्ररूपितम् । दृष्टव्यं तत्समुद्घाट्य सत्यमार्गगवेषकैः ॥ १२८ ।। अनभिज्ञत्व रूपा सा चेष्टा शंकरस्वामिनाम् । अन्य दृष्टिं विना दृष्टवा लिखने नैव प्रौढिमा ॥ १२६ ।। सर्वेषां दर्शनानां च युक्तियुक्त्या विवेचनम् । निरसनंच सद्युक्त्या तत्त्वाऽऽख्याने विभाव्यताम् ॥१३०।। तत्तदर्शनशास्त्रस्य विलोकनं विशेषतः। कृत्वा च न्यायतीर्थेन प्रतिवादः समाहतः॥ १३१ ।।
॥ ॐ शान्तिः शान्तिः ॥
१ भावनगर यशोविजय ग्रन्थ मालायां मुद्रितं वर्तते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
लघुपशास्तिः
-
रघुनाथपुरे रम्ये, मानभूमप्रदेशके । नैकभद्रजनाकीर्णे, नैक विद्यालयैर्युते ॥ १॥ जैनानां तत्र प्राचुर्य, प्राक्काले वज्रभूमिषु । अनेकमन्दिराणां च, प्रादुर्भावो विधीयते ॥२॥ विशालजैनमूर्तीनां, प्राकट्यमधुनापि च । अतः सराकजातीनां, चोद्धृत्यै यत्नता खलु ॥ ३ ॥ महानविद्यालयश्चात्र, स्थापितो जैनपुङ्गवैः । मंगलादिकसाधूनामुपदेशप्रभावतः ॥४॥ जनानामानुकूल्यं च, बहुधा परिविद्यते । अतस्तदुपकाराय, श्राद्धैर्धन व्ययीकृतः ॥ ५॥ श्राद्धादि गुणयुक्तानां, सींघीय गोत्रताजुषाम् । बहादूरस्य चौदार्यात् , जातं कार्य महत्तरम् ॥ ६ ॥ गुरु श्री धर्मसूरीणां, ममोपरि कृपा सदा। अतस्तत्कार्य कर्तव्ये यत्नः कथं न तन्यते ॥ ७ ॥
२
१-मंगलविजय-प्रभाकरविजयः ।
२–बहादूरसिंहजी सिंधी। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________ यशावि zlclblle hehra SAMBI नवयुवक प्रेस, 3, कमर्सियल विल्डिग्स् कलकत्ता। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com