SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ [ २ ] दाक्षिणात्यो महाभागो भूतपूरी निवासकः । सुदर्शनाऽभिधेयश्च ग्रन्थं च कृतवान् खलु ॥ १ ॥ कल्लोलिनी च यस्याख्या वर्तते पुस्तकस्य च । बहु भ्रान्तिश्च जैनेषु कृता तेन मनीषिणा ॥ २ ॥ तदर्थं क्रियते यत्रः दर्शनभ्रमशोधकः । कासांचिच्चैव भ्रान्तीनां निरसनं विधीयते ॥ ३ ॥ जैनधर्मविषयक मान्यता तेन या दर्शिता सा अक्षरशोऽत्र लिख्यते । १- आर्हतोऽपि जगत्सर्वं कार्यकारणरूपेण नित्यानित्य सत्यासत्य भिन्नाभिन्नात्मकम् । २ - आत्मानः कर्माऽनुगुण शरीर परिणाम परिमाणाः । ३ – अनादिसंसारः । ४—मलधारणाऽऽत्मज्ञानादिभिः प्रकृतिविनिर्मोकादूर्ध्वगति प्राप्तिर्मोक्ष इति जैन सिद्धान्तस्तेन प्रतिपादितः । आर्हतेति च संप्रोच्य यदुक्तं तदसत्यकम् । जैनशास्त्रे च तादृक्षी मान्यता नैव विद्यते ॥ ४ ॥ कस्य चिज्जैन शास्त्रस्य दत्तं नैव प्रमाणकम् । अप्रमाणिक वादोऽयं जैनसिद्धान्तसंमतः ॥ ५ ॥ जैनैस्तादृक् च नो प्रोक्तं कथं मिथ्या विधीयते । मिथ्यावाद प्रवक्तव्ये दोषाऽवकाशता भवेत् ॥ ६ ॥ जगत्सवं च जैना वै गदन्ति नैव तादृशम् । मन्यते ॥ ७ ॥ अपितु द्रव्यपर्यायरूपं जैनेश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035277
Book TitleSudarshan Pandit Pratyuttaram Va Bhramshodhak
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Shah
Publication Year1941
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy