SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ कार्यकारणरूपं च प्रोक्तं न जैनशासने । अपितु बौद्ध राधान्तः कुतोऽत्र परिदर्श्यते ॥८॥ नित्यानित्यत्वरूपं च बौद्धर्न स्वीकृतं कदा। कार्यकारणकं यत्र तत्र नित्यादिकं नहि ॥४॥ सर्वथाऽसत्यरूपं तु खपुष्पं परितिष्ठति । शून्यवादिगृहे तच्च अन्यत्र नैव संमतम् ॥ १०॥ परस्परं च कार्यकारणता क्षणिके मता। जैनेषु नैव तादृक्षं सर्वथा संमतं खलु ॥ ११॥ जैन बौद्धस्य सिद्धान्तावलोकनं कृतं न चेत् । कथं तर्हि तदीयानां मान्यता दर्शिता त्वया ॥ १२ ॥ मेदज्ञानं विना कृत्वा लेखिनी चोद्यता तव । अतएव च हास्यावकाशता जायते नृणाम् ॥ १३ ।। जड़चेतन मध्ये च सर्वथा भिन्न रूपता। अनादिकालिकी ज्ञेया तत्र नोऽभिन्नतामता ॥ १४॥ जड़चेतन रूपं च जगज्जैनैऽनिगद्यते । तत्र खपुष्प सादृक्षी अभिन्नता प्रकीर्तिता ॥१५॥ उपयोगस्वरूपाः स्युः आत्मानो जैनदर्शने । कर्मानुगुण इत्यादि जैनेषु नैव सर्वथा ॥१६॥ एकान्तकर्मवादश्च मीमांसकेषु संमतः। पञ्चकारणवादोहि संमतो जैनशासने ॥ १७॥ सिद्धात्मसु च नो तादृक् कर्माभावाच्च सर्वथा। शरीरस्यापि नो सत्ता तत्र केनापि रूपतः ॥ १८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035277
Book TitleSudarshan Pandit Pratyuttaram Va Bhramshodhak
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Shah
Publication Year1941
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy