Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak
Author(s): Mangalvijay
Publisher: Hemchand Shah
View full book text
________________
[ १३ ] युक्तिप्रमाणपूर्वेण व्याख्यातं शीलसुरिभिः। शंका समाधिता तत्र दर्शिता वै प्रमाणतः ।। १०७ ।। सूत्रकृत्सूत्र मध्येच सांख्यादि दर्शनं तथा । आदिदेवोपदेशश्च वैतालीय विभागके ।। १०८ ।। नरकस्त्रीविभक्तिश्च नारक दुःखवीक्षणम् । विशेषतोऽत्र संप्रोक्तं सार्वीय दृष्टिवेदिभिः ॥ १०६ ।। अन्यमतीय प्रश्नाश्च प्रोक्ता वै चेन्द्रभूतिना। उत्तराः शमभावेन कीर्तिता जिनभास्करैः ।। ११० ।। अनेकवस्तुबोधश्च स्पष्टरूपेण जायते । बोधाच्चारित्रसंप्राप्तिः ततः कर्मक्षयो ध्रुवम् ॥ १११ ।। स्थानांगे चैकमारभ्य दशपर्यंतवस्तुनः । त्रैकालिकपदार्थानां तन्मध्ये च निरूपणम् ।। ११२ ॥ आक्रोशलेशता नैव मोहाभावे च सर्वथा। अध्यात्मवादप्राचुर्यं धर्म भाव प्रकाशकः ।। ११३ ॥ न्यायशास्त्रानु कारित्वं चरकस्य तथैव च। इत्युक्तिर्बालिशानां च नैकट्य परिशोभते ॥ ११४ ॥ एकदेशीयता तत्र अत्रैव सार्वदेशिकम् । तत्र शुष्कविवादश्च अत्र चाध्यात्मदेशना ॥ ११५ ॥ तस्य साम्यत्व संवादः कदाचिन्नैव युज्यते । हस्तिरासभयोश्चैव कथं साम्यं निगद्यते ॥ ११६ ।।
१ अध्ययने ।
२ गौतमीय न्यायदर्शनानुकरणं । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 16 17 18 19 20 21 22