Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak
Author(s): Mangalvijay
Publisher: Hemchand Shah

View full book text
Previous | Next

Page 16
________________ [ ११ ] अहिंसासंयमे चैव तपो रूपे च धर्मता। आत्म स्वरूपता तत्र हेतुत्वे न विधीयते ॥ ८ ॥ यस्य धर्मे सदा स्वान्तं नमन्ति तत्र देवता। ततो बाह्य लाभः स्यादुपद्रवस्य शान्तिता ॥१०॥ अपरेषां तु का वार्ता देवानां नमने सति । परे च नामिता एव इति मनसि बुद्धयताम् ।। ६१ ॥ जैनशास्त्रविरुद्धं ये मन्यन्ते पक्षपातिनः। देवप्रियैर्नरैः पूज्याः ते नो ज्ञयाः कदाचन ॥ १२ ॥ तं नो देवा नमस्यन्ति असन्मार्गावलम्बतः । पलादास्तान्नमस्यन्ति न तु विशुद्धदेवताः॥६॥ वेदविहितहिंसायाः कारणं श्वसुरं प्रति । जामातारो नमस्यन्ति इत्यपि नैव युक्तिमत् ॥ १४ ॥ यज्ञक्रियाविधानेन देवांश्च प्रीणयन्ति ते। इति मिथ्या वचश्चैव श्रोतव्यं नैव कहिचित् ॥६५॥ देवपूजास्वरूपश्चेत् यज्ञो हिंसानिषेधकः । इत्यर्थे चैव कर्तव्ये विवादो विद्यते नहि ॥६६॥ पश्वादिहोमरूपश्च किन्तु यज्ञः प्ररूपितः । अतोऽहिंसा स्वरूपश्च यज्ञो नैव कदाचन ॥६७ ।। यमादि योगांगद्वाराऽऽगम्यमान नूतनकर्मनिरोधेन पुरातनस्य निर्जरया शुद्धाऽऽत्मस्वरूपं प्रकटीयते शुद्धात्म प्रकाशत्व हेतौ तु तादृग् दोषो नास्ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22