Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak
Author(s): Mangalvijay
Publisher: Hemchand Shah
View full book text
________________
विमर्शकं समुद्दिश्य लिखितं भवता खलु । तत्सवं युक्तिहीनत्वं प्रमाणेन प्रदर्श्यते ।। ३६ ।। वेदविषयज्ञानस्य भवतोऽभावश्च सर्वथा। शंकरादिकविज्ञानां कृतिमुद्दिश्य तत्त्वतः ।। ४॥ लिखितं स्वीय सद्ग्रन्थे नूतनं न कृतं त्वया । महावीरत्वनामाऽऽख्यः जैनधर्म प्रवर्तकः ॥ ४२ ॥ प्रतिमादि गुणैर्युक्तः आद्यस्तद् धर्मदेशकः । अपरो नैव ज्ञातव्यः एवकारेण बोध्यते ।। ४२ ।। कूपमण्डूकता तेन वाक्येन परिदशिता। नहि स्वकीय सिद्धान्तः स्वयं कदाऽपि वीक्षितः ॥४३॥ ऋगवेदादि शास्त्रेषु मंत्रा जैनत्वद्योतकाः । शतशः परितिष्ठन्ति नेत्रमुन्मूल्य दृश्यताम् ॥ ४४ ॥ भृषभादिजिनेन्द्राणां सुमतिजिनस्वामिनाम् । श्री श्रेयांसप्रभूणां चारिष्टनेमिजिनस्य वै ॥ ४५ ॥ वर्धमानमहावीरप्रभूणां नामपूर्वकाः। बाढं मंत्राश्च तिष्ठन्ति त्वच्छास्त्रं दृश्यतां त्वया ॥४६॥ एवं तीर्थंकराणां च भरतादि चक्रवर्तिनाम् । मंत्राणां विद्यमानेऽपि कथमाधः स देशकः ॥४७॥ प्रथम आदिदेवः स्यात् सुमतिश्च पञ्चमो मतः ।
श्रीश्रेयांसप्रभुश्चैव एकादशतमः खलु ॥४८॥ १ शंकराचार्यादि। २ तेषु कतिचिच्छलोका जैनत्व थोतकाः सन्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22