Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak
Author(s): Mangalvijay
Publisher: Hemchand Shah
View full book text
________________
[
]
द्वाविंशतितमः
७
स्मृतः ।
चतुर्विंशतिसंख्यकः ॥ ४६ ॥
अरिष्टनेमिनाथश्च वर्धमानजिनेन्द्रश्च वर्धमानस्य पूर्वेऽपि त्रयोविंशतिसंख्यकाः । तेषां वेदेषु नामानि कतिचित्सन्ति पूज्यतः ।। ५० ।। कथं तर्हि महावीरः जैने चाद्यप्रवर्तकः । अतो विचार्य वक्तव्यं परमन्तव्यतत्त्वकम् ।। ५१ ।। श्रीमद् भागवते ग्रन्थे योगवाशिष्टशास्त्रके । महाभारतपौराणे श्लोका जैनत्व द्योतकाः ।। ५२ ।। वेदरहस्यग्रन्थे च व्याख्याताः कतिचिन्मया । ततोऽपि ते च ज्ञातव्याः भ्रान्तिनिरासकांक्षिणा ॥ ५३ ॥ वेदात्प्रागपि नो चेत्ते तर्हि तन्नामता कथम् । अतस्ततोऽपि प्राचीनाः सर्वे तीर्थंकरा मताः ॥ ५४ ॥ अनादिता च वेदेषु यदि त्वया निगद्यते । दोषाऽवकाशता तत्र प्रत्यक्षेण विलोक्यताम् ॥ ५५ ॥ ऋषभादिप्रभूणां च सादित्वं स्वीकृतं समैः । कथं तेऽपि समायाताः अनादि वेद शास्त्र के ॥ ५६ ॥ तद्दोषस्य निरासाय तेषां यदि च नित्यता । तदा तेषां पितॄणां च पुत्राणां संभवः कथम् ॥ ५७ ॥ चतुर्विंशति तीर्थंकराणां च स्वीकृतिर्यदि । तदा तेषु च मध्ये वै प्राथम्यमादिनाथके ॥ ५८ ॥ श्रीमद्भागवते चैव अतएव निरूपितम् ।
एकादशसु स्कन्धेषु ग्रन्थं निष्कास्य दृश्यताम् ॥ ५६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22