Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak
Author(s): Mangalvijay
Publisher: Hemchand Shah

View full book text
Previous | Next

Page 13
________________ [ ८ ] तहिं कथं महावीरे प्रथमं तत्प्रवर्तनम् । भवद्भिलिखितं तद्धि युक्तिप्रमाणशून्यतः ॥ ६०॥ अन्तिमस्तु महावीरो भगवान् जैनसम्मतः । यद्याद्यश्च महावीरः मन्यते हि भवादृशैः ॥ ६१ ॥ तदा वेदादि शास्त्रेषु मृषभाद्याः कथं मता। जैनशास्त्रेषु सर्वत्र क्रमतः प्रतिपादिताः ॥ ६२ ॥ यदि तत्र न प्रामाण्यं वेदेषु तत्कथं भवेत् । युक्तिप्रमाणराहित्ये वक्तव्ये न विवेकता ।। ६३ ।। एतत्कालं समुदृश्य प्रवर्तकत्वमुच्यते । तदा त्वयाऽपि मन्तव्यं आद्यत्वमृषभे जिने ॥ ६४ ॥ महावीरोऽन्तिमो ज्ञेयः युक्तिः युत्त्या विचारणे । असंबन्धत्वदोषो हि अतएव निवर्तते ।। ६५ ॥ अपेक्षया च प्रोक्तं तत् विवादस्तत्र नो भवेद् । अथवाऽनादिता जैने पारंपर्यानुयोगतः ॥ ६६ ॥ आस्तिकनास्तिक्य चर्चा वादोऽपि नैव चर्चितः। परन्तु हार्दिको भावो वेदाऽनुयायिनस्तव ।। ६७ ॥ वेदाऽनुयायि व्यक्तौ च यद्यास्तिक्यं निगद्यते । तदा जैमिनि भक्ता ये घोरहिंसाविधायकाः ॥ ६८ ॥ त एव चास्तिका ज्ञेया वेदशास्त्रावलम्बतः । ये वेदविहिता यज्ञाः कुर्वन्ति ते च सर्वदा ॥ ६ ॥ वरं वराकाश्चार्वाकाः ते तु प्रगट नास्तिकाः । वेदोक्तितापसच्छमच्छन्नं रक्षो न जैमिनिः ॥ ७० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22