Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak
Author(s): Mangalvijay
Publisher: Hemchand Shah
View full book text
________________
[ ५ ] किंच सिंहावलोकं च कार्यकारणतादिके। क्रियते जड़चैतन्ये घटते नैव ताहशम् ॥ २८ ॥ चैतन्यस्य न हेतुत्वं जड़तायां विभाव्यते । कार्यताऽपि न तत्रैव केन रूपेण संमता ॥ २६ ।। जड़ोत्पत्तश्च हेतुत्वं चैतन्ये नैव संभवेत् । कार्यताऽपि न तत्रैव केन रूपेण संमता ॥ ३०॥ यदि चैतन्यतत्त्वेच कार्यता मन्यते मया। तदा जड़स्य कार्यत्वे चैतन्ये जड़ता भवेत् ॥ ३१ ।। यादृशं कारणं यत्र कार्य ताइक्च जायते । जड़कारणतायां वै चैतन्ये जड़ता खलु ॥ ३२॥ यदि चैतन्यतत्त्वेषु नित्यत्वं नैव मन्यते । तदा जैनैः कथं तर्हि योगादिकं च पाल्यते ॥ ३३ ॥ अत्यन्ताभावसम्बन्धो जड़चैतन्योयोर्मतः । कार्यकारणता तर्हि कथं जैनेः प्रदर्श्यते ॥ ३४॥ दानतपः किमर्थं वै क्रियते फललिप्सुना। वन्ध्यापुत्रसमा चैव तादृशी मान्यता जिने ।। ३५ ।। कथं मिथ्या समारोपः त्वया जैने विधीयते । जैनदर्शनज्ञानस्य शून्यता त्वयि भाव्यते ।। ३६ ।। जैनदर्शनशास्त्राणामभ्यासं च कृतं न चेत् । खण्डनं च कथं तर्हि विदुषा परितन्यते ॥३७॥ शुष्ककथाऽनुसारित्वं भवतां नैव युज्यते । धर्मवादाऽनुसारेण वक्तव्यं हि भवादृशैः ॥ ३८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22