Book Title: Subhashit Sanchay Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ अनुसंधान-२८ एकेनार्क प्रकटितरुषा पाटलेनाऽस्तसंस्थं पश्यत्यक्ष्णाऽश्रुजललुलितेनाऽपरेण स्वकान्तम् । अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥८॥ उत्कूजति श्वसिति मुह्यति याति तीरं, तीरान् तरुं तरुतलात् पुनरेति वापीम् । वापी न तिष्ठति न चात्ति मृणालखण्डं, चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥९॥ कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा, व्रजति दिनकरोऽयं यत्र नाऽस्तं कदाचित् । इति विहगसमूहान्नित्यमापृच्छतीदं, रजनिविरहभीतश्चकवाको वराक: ॥१०॥ चक्राष्टकम् ॥ येन कृत्वापि मातङ्गेऽन्यासु निराचष्टे च दूराच्च । प्रतिवेशिनिरानन्दो भ्रमराष्टकमेतदाख्यातम् ॥१॥ येनामोदिनि केशरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशाशशाङ्कधवले पद्मोदरे शारिदै (शारदी ?) । भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥२॥ कृत्वाऽपि कोशपानं, भ्रमरयुवा पुरत एव कमलिन्याः । अभिलषति बकुलकलिकां, मधुलिहि मलिने कुत: सत्यम् ? ॥३॥ मातङ्गेन मदावलिप्तमतिना यत्कर्णतालानिलै र्दानार्थं समुपागता मधुलिहो दूरं समुत्सारिताः । तस्यैधानमण्डनक्षितिरसौ भृङ्गाः पुनः सर्वतो जीविष्यन्ति वनान्तरेषु विकसत्पुष्पासवैः सीधुभिः ||४|| अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु । मुग्धामिमामसरसां कलिकामकाले, बालो कदर्थयसि कि नवमालिकायाः ? ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28