Book Title: Subhashit Sanchay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
10
अनुसंधान-२८
त्यक्तं जन्मवनं तृणाङ्करवती मातेव मुक्ता स्थली विश्रामस्थितिहेतवो न गणिता बन्धूपमाः पादपाः । बालापत्यवियोगदुःखविधुरा मुक्ताऽर्धमार्गे मृगी मार्गं तत्पदवी(वीं) तथाप्यकरुणा व्याधा न मुञ्चन्ति माम् ।।८।। अन्यास्ता मलयस्य काननभुवः स्वच्छश्रवन्निर्ज(झ)रास्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि । क्षुकां(ब्धाकां ?)क्षपरिग्रहो मरुरसौ स्फारीभवदधा(भ्रा?)न्तयः ता एता मृगतृष्णिका हरिण हे ! नेदं पयो गम्यताम् ॥९॥
हरिणाष्टकम् ॥
क्षुत्क्षाममत्तेभमृगैर्मृगारि-रद्यापि निद्रा प्रकृतिर्यथेष्टम् । वित्रं वपुस्साम नयश्च लोके सिंहाष्टकं कस्य मुदे न पुंस: ? ||१|| क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राप्तो(यो)ऽतिकष्टां दशामापन्नोऽपि विपन्नदीध(धि?)तिरपि प्राणेषु गच्छत्स्वपि । मत्तेभेन्द्रविशालकुम्भदलनव्यायामबद्धस्पृहः कि जीर्णं तृणमत्ति मानमहतामग्रेसरः केशरी ॥२॥ मृगैर्नष्टं शशैर्लीनं, वराहैर्वलितं रुषा । हयानां हेषितं श्रुत्वा, सिंहै: पूर्ववदासितम् ॥३॥ मत्तेभकुम्भनिर्भेद-कठोरनखराशनि(:) । मृगारिरिति नाम्नैव लघुतामेति केशरी ॥४॥ मृगारिं वा मृगेन्द्रं वा, सिंहं व्याहरतां जनः । तस्य द्वयमपि व्रीडा, क्रीडादलितदन्तिनः ॥५॥ अद्यापि न स्फुरति केसरभारलक्ष्मीर्न प्रेषति ध्वनितमद्रिगुहान्तरेषु । मत्तास्तथापि हरिणा हरिणाधिपस्य पश्यन्ति भ्रान्तमनसः पदवीं वनेषु (?) ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28