Book Title: Subhashit Sanchay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ 12 अनुसंधान-२८ नखनसिखुरैः क्षोणीपृष्टं न नर्दति सादरं प्रकृतिपरुषं प्रेष्यासन्नं न कुप्यति गोतरम् । वहति च धुरं धुर्यो धैर्यादनुद्धरकन्धरो जगति गुणिन(:) कार्योदार्या[त्] परानतिशेरते ॥३॥ अनसि सीदति सैकतवर्मनि प्रचुरभारभरक्षपितोक्षणि । गुरुभरोद्धरणोद्धरकन्धुरं स्मरति सा[रथि]रन्यधुरन्धरम् ॥४॥ न ध्वानं कुरुते(?) न यासि विकृतिं नोच्चैर्वहस्याननं दोन्नोल्लिखसि क्षिति खुरपुटै ऽवज्ञया वीक्षसे । किन्तु त्वं वसुधातलैकधवलः स्कन्धाधिरूढे भरे तीव्राण्युच्चतटे विटङ्कविषमाण्युल्लङ्घयन् लक्ष्यसे ॥५॥ गुरुर्नाऽयं भारः क्वचिदपि न पन्था: स्थपुटितो न ते कुण्ठा वोक्तिर्वहनमपि नाऽङ्गेन विकलम् । इह द्रङ्गे नाऽन्यस्तव गुणसमानस्तदधुना धुनानेन स्कन्धं धवल ! किमु मुक्तः पथि भरः ? ||६|| यथा भग्नः पन्थाः परुषविषमग्रावगहने गलानां नाऽङ्गानि स्पृशति च यथा सारथिरयम् । यथा चैते दृप्ताः खवलितभुवो यान्ति वृषभास्तथा दूरीभूत: स खलु धवलो नूनमधुना ।।७।। यस्यादौ व्रजमण्डनस्य बहुभिरु(यू)ढा न गुर्वी धुरा धौर्येयैः प्रगुणीकृतो न युगपत् स्कन्धे समस्तैरपि । तस्यैव श्लथकम्बलस्य धवलस्योत्थापने साम्प्रतं द्रङ्गेऽत्रैव जरावसादिततनोर्गोः पुण्यमुद्दष्यते ॥८॥ व्यूढा येन महाधुरा सुविषमे मार्गे सदैकाकिना सोढो येन कदाचिदेव न निजे णष्टेन्य (?)शण्डध्वनिः । आसीद् यश्च गवां गणस्य तिलकस्तस्यैव संप्रत्यहो ! धिक्कष्टं धवलस्य जातजरसो गोः पुण्यमुद्दष्यते ॥९॥ धवलाष्टकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28