Book Title: Subhashit Sanchay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 27
________________ July-2004 27 हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं तेषां दण्डपदं भविष्यति कियज्जानाति तत् केवली ।।२।। कट्यां चोलपटं तनौ सितपटं कृत्वा शिरोलोचनं स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वक्त्रे वस्त्रेमुखं विधाय ददतः श्रीधर्मलाभाशिषं वेषाडम्बरिणः स्वजीवनकृते विद्यो गतिं नाऽऽत्मनः ॥३।। भिक्षा पुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे । आत्मारामतया तथा क्षणमपि प्रोज्य प्रमादद्विषां(षं) स्वार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् ॥४॥ पाषण्डानि सहस्रशो न(ज)गृहिरे ग्रन्था भृशं पेठिरे लोभाज्ञानवशात् तपांसि बहुधा मूढैश्चिरं तेपिरे । क्वापि क्वापि कथञ्चनापि गुरुभिर्भूत्वा मुदो भेजिरे कर्मक्लेशविनाशसम्भवसुखान्यद्यापि नो लेभिरे ॥५॥ कि भावी नारकोऽहं किमुत बहुभवा(वी)दूरभव्यो नभव्यः ? किं वाऽहं कृष्णपक्षी किमचरणगुणस्थानकी कर्मदोषात् ? । वह्निज्वालेव शिक्षा व्रतमपि विषवत् खड्गधारा तपस्या स्वाध्यायः कर्णशूची यम इव विषमः संयमो यद्विभाति ॥६॥ वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतुद्धौषधं शय्यापुस्तकपुस्तिकोपकरणं शिष्यं च कृष्या(?शिक्षा)मपि । गृह्णीमः परकीयमेव नितरामाजन्मगृद्धा वयं यास्यामः कथमीदृशेन तपसा तेषां हहा ! निःक्रयम् ||७|| अन्तर्मत्सरिणां बहिः शमवतां प्रच्छन्नपापात्मनां नद्यम्भःकृतशुद्धिमद्यपवणिग्दुर्वासनाशालिनाम् । पाखण्डव्रतधारिणां बकदृशां मिथ्यादृशामीदृशां बद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा ! का गतिः ? ॥८॥ १. ०लुञ्चनं । २. वस्त्रमथो । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28