Book Title: Subhashit Sanchay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
26
व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन्मृगः कूपान्तः पतितः करोति विधुरे किंवा विधौ पौरुषम् ॥५॥
शशिदिवाकरयोर्ग्रहपीडनं गजभुजङ्गविहङ्गमबन्धनम् । मतिमतां च समीक्ष्य दरिद्रतां विधिरहो ! बलवानिति मे मतिः ||६||
अलङ्कारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्गो भृङ्गी वसु च वृष एको गतवयाः । अवस्थेयं स्थाणोरपि भवति यत्राऽमरगुरो
विधौ वक्त्रे मूर्ध्नि स्थितवति वयं के पुनरमी ? ॥७॥
अनुसंधान - २८
सृजति० ॥८॥
पौष्यां पञ्च शराः शरासनमपि ज्याशून्यमिशोलता जेतव्यं जगतां त्रयं स च पुनर्जेताऽप्यनङ्गः किल । इत्याश्चर्यपरम्पराघटनया चेतश्चमत्कारयन् व्यापारः सुतरां विचारपदवीवन्ध्यो विधेर्वन्द्यताम् ||९|| भग्नाशस्य करण्डपिण्डित (त) नोग्लनेन्द्रियस्य क्षुधा कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्थिष्ठत दैवमेव हि नृणां वृद्धौ क्षये चाऽऽकुलम् ॥१०॥
दैवाष्टकम् ॥
( २० )
श्रुत्वा श्रद्धाय सम्यक् शुभगुरुवचनं वेश्मवासं निरस्य प्रव्रज्याऽथ पठित्वा बहुविधतपसा शोषयित्वा शरीरम् ।
धर्मध्यानाय यावत् प्रभवति समयस्तावदाकस्मिकीयं
प्राप्ता मोहस्य धाटी तडिदिव विषमा हा ! हताः कुत्र यामः ? ॥१॥
एकेनाऽपि महाव्रतेन यतिनः खण्डेन भग्नेन वा दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28