Book Title: Subhashit Sanchay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 25
________________ July-2004 25 पत्राद् (?)येन विदारितं कररुहैर्देत्येन्द्रवक्षःस्थलं सारथ्येन धनञ्जयस्य समरे योऽमारयत् कौरवान् । ............... नासौ विष्णुर्विशिष्टो मम |७|| (?) एको नृत्यति विप्रसार्थ कु(क)कुभां चक्रे सहस्रं भुजामेक: शेषभुजङ्गभोगशयने व्यादाय निद्रायते । दृष्ट्वा चारुतिलोत्तमासु(मु)खमगादेकञ्चतुर्वक्त्रतामेते मुक्तिपदं वदन्ति विदुषामित्येतदत्यद्भुतम् ॥१८॥ ( देवाष्टकम् ?) (१९) वीचीकैवर्त यद्भग्नं छित्वा शशिदिवाकरम् । अलं सृजति पौष्याश्च, भग्नाशस्याऽष्टकं विधेः ॥१॥ वीचीव्याप्त वियनिरुद्धवसुधं क्वाऽगाधरन्धं पयो गोलाङ्गुलविलोलपाणितुलिताः क्षुद्राः क्व ते क्ष्माभृतः । बद्ध्वा दाशरथिस्तथापि जलधिं प्रत्याजहार प्रियां ग्रावाणोऽपि तरन्ति वारिणि यदा पुंसोऽनुकूलो विधिः ॥२॥ कैवर्तकर्कशकरग्रहणच्युतोऽपि जाले पुनर्निपतितः शफरो वराकः । जालादपि प्रगलितो गिलितो बकेन वामे विधौ बत कुतो व्यसनानिवृत्तिः ? ॥३|| यद् भग्नं धनुरीश्वरस्य शिशुना यज्जामदग्न्यो जितस्त्यक्ता येन गुरोनिरा वसुमती बद्धो यदम्भोनिधिः । एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्णय येन सोऽपि सहसा नीतः कथाशेषताम् ॥४॥ छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद् वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य पारं वनात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28