Book Title: Subhashit Sanchay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
July 2004
किं ते नम्रतया० ||६||
न्यग्रोधे फलशालिनि स्फुटरसं किञ्चित् फलं पच्यते बीजाण्य ( न्य) ङ्करगोचरणि कतिचित् सिध्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नति
यामध्यास्य जनः स्वमातरमिव क्लान्तिच्छिदे धावति ||७|| पान्थाधार इति द्विजश्रिय इति श्लाघ्यस्तरूणामिति स्निग्धच्छाय इति प्रियो दृश इति स्त्रा (स्था) नं गुणानामिति । यावत् तत्क्षणमाश्रयन्ति गुणिनः क्लान्तिच्छिदे पादपं तावत् कोटरनिर्गतैरहिगणैर्दूरं समुत्सारिताः ॥८॥
हंहो पान्थ ! किमाकुलं श्रमवशादत्युद्धतं धावसि प्रायेणाऽस (स्य) महाद्रुमस्य भवतो (ता) वार्ताऽपि नाऽऽकर्णिता । मूलं सिंहसमाकुलं तु शिखरे प्रोच्चण्डतुण्डाः खगा मध्ये कोटरभाजि भीषणफणाः पूत्कुर्वते पन्नगाः ॥१९॥
भ्राम्यद्भङ्गधराऽवनम्रकुसुमः श्चोतन्मधूगन्धिषु छायावत्सु तलेषु पान्थनिचया विश्रम्य गेहेष्विव ।
निर्यन्निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलैस्तेनेदं नु फलन्तु यान्तु च परामभ्युन्नतिं पादपाः ॥ १०॥
वृक्षाष्टकम् ॥
( १६ )
बीजैरन्येहाधिक् योऽयं किं नाम विरम चान्यत्ते (न्ये ते) । हंहो चातकशब्दै- बप्पीहस्याष्टकं नाम ॥१॥
बीजैरङ्कुरितं० ॥२॥
अन्येऽपि सन्ति भुवि तामरसावतंसा हंसावलीवलयिनो जलसन्निवेशा: । कोऽपि ग्रहो गुरुरयं हतचातकस्य पौरन्दरीं यदभिवाञ्छति वारिधाराम् ॥३॥
Jain Education International
For Private & Personal Use Only
21
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28