________________
रत्वं सिद्धं न च मुद्रिकाकारविनाशे हेमविनाश इति, तद्वन्नारकादिपर्यायमात्रनाशे सर्वथा जीवनाशो न भविष्यतीति, आह च-"न हि नारगादिपज्जायमेत्तनासंमि सव्वहां नासो। जीवद्दव्वस्स मओ मुद्दानासेव्व हेमस्स ॥ १ ॥" त्ति, अपि च-"कम्मको संसारो तन्नासे तस्स जुजए नासो। जीवत्तमकम्मकयं तन्नासे तस्स को नासो ॥२॥" त्ति मोक्षश्च पुण्यपापक्षयाद्भवतीति पुण्यपापयोः स्वरूपं वाच्यं, तत्रापि मोक्षस्य पुण्यस्य च शुभस्वरूपसाधात् पुण्यं तावदाह-एगे पुण्णे' 'पुण शुभे' इति वचनात् पुणति-शुभीकरोति पुनाति वा-पवित्रीकरोत्यात्मानमिति पुण्य-शुभकर्म, सद्वेद्यादि द्विचत्वारिंशद्विधम् , यथोक्तम्-"सायं १ उच्चागोयं २ नरतिरिदेवाउ ५ नाम एयाउ । मणुयदुर्ग ७ देवदुगं ९|| पंचेंदियजाति १० तणुपणगं १५ ॥१॥ अंगोवंगतियंपिय १८ संघयणं वज्जरिसहनारायं १९ । पढमंचिय संठाणं २० वन्नाइचउक्क सुपसत्थं २४॥ २ ॥ अगुरुलहु २५ पराघायं २६ उस्सासं २७ आयवं च २८ उज्जोय २९ । सुपसत्था विहयगई ३० तसाइदसगं च ४० णिम्माणं ४१॥३॥ तित्थयरेणं सहिया बायाला पुण्णपगईओ" ति ॥ एवं द्विच
त्वारिंशद्विधमपि अथवा पुण्यानुबन्धिपापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्यर सामान्यादेकमिति । अथ कमैव न विद्यते प्रमाणगोचरातिक्रान्तत्वात् शशविषाणवदिति कुतः पुण्यकर्मसत्तेति ?, अस
त्यमेतत्, यतोऽनुमानसिद्धं कर्म, तथाहि-सुखदुःखानुभूतेर्हेतुरस्ति कार्यत्वादङ्करस्येव बीजं, यश्च हेतुरस्यास्तत्कर्म
ASSANASSA SUSANA SASAASAS
१ नैव नारकादिपर्यायमात्रनाशे सर्वधा नाशः । जीवद्रव्यस्य मतो मुद्रानाशे इव हेनः ॥१॥२ कर्मकृतः संसारखनाक्षे तस्य युज्यते नाशः । जीवत्वमकर्मकृतं तमाशे तस्य को नाशः ! ॥ २॥ इति
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org