Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ मङ्गलादि सू. १ पीस्थानाङ्गसूत्रपिका वृत्तिः। त्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किलोपादेयस्तद्वचनमपि तथेति इत्यादि । यदाख्यातं भगवता तदधु नोच्यते-सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानानुष्ठानविषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधान्यमतस्तद्विचारं ताव दादावाह पगे आया (सू. २) 'एग' ति एको न द्वयादिरूपः आत्मा-जीवः कथञ्चिदिति गम्यते, तत्र अतति-सततमवगच्छति । अत सातत्यगमने' | इति वचनाद अतधातोर्गत्यर्थत्वाद् गत्यर्थानां च ज्ञानार्थत्वादनवरतं जानातीति निपातनाद आत्मा-जीवः, उपयोगलक्षणत्वादस्य सिद्धसंसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात् , सततावबोधाभावे चाजीवत्वप्रसङ्गात् अजीवस्य सतश्च पुनर्जीवत्वा- 10 भावात् , भावे चाकाशादीनामपि तथात्वप्रसङ्गात् । एवञ्च जीवानादित्वाभ्युपगमाऽभावप्रसङ्ग इति, अथवा अतति सततं गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा, नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गस्तेषामपि स्वपर्यायेषु सततं गमनात् , अन्यथा अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैवं, व्युत्पत्तिनिमित्तमात्रत्वादस्य, उपयोगस्यैव प्रवृत्तिनिमित्तत्वात् , जीव एव आत्मा, नाकाशादिरिति, अथवा जन्ममरणसुखदुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयमिति । इह च सूत्रेषु कथञ्चिदित्यनु. स्मरणीयं, कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्था निबन्धनत्वात् । उक्तञ्च "स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः । लोकद्वितयभाविन्यो, नैव साङ्गत्यमियति ॥१॥ तथा Jain Education Inter n al For Private & Personal Use Only Alw.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 454