________________
मङ्गलादि सू. १
पीस्थानाङ्गसूत्रपिका वृत्तिः।
त्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किलोपादेयस्तद्वचनमपि तथेति इत्यादि । यदाख्यातं भगवता तदधु नोच्यते-सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानानुष्ठानविषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधान्यमतस्तद्विचारं ताव
दादावाह
पगे आया (सू. २)
'एग' ति एको न द्वयादिरूपः आत्मा-जीवः कथञ्चिदिति गम्यते, तत्र अतति-सततमवगच्छति । अत सातत्यगमने' | इति वचनाद अतधातोर्गत्यर्थत्वाद् गत्यर्थानां च ज्ञानार्थत्वादनवरतं जानातीति निपातनाद आत्मा-जीवः, उपयोगलक्षणत्वादस्य सिद्धसंसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात् , सततावबोधाभावे चाजीवत्वप्रसङ्गात् अजीवस्य सतश्च पुनर्जीवत्वा- 10 भावात् , भावे चाकाशादीनामपि तथात्वप्रसङ्गात् । एवञ्च जीवानादित्वाभ्युपगमाऽभावप्रसङ्ग इति, अथवा अतति सततं गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा, नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गस्तेषामपि स्वपर्यायेषु सततं गमनात् , अन्यथा अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैवं, व्युत्पत्तिनिमित्तमात्रत्वादस्य, उपयोगस्यैव प्रवृत्तिनिमित्तत्वात् , जीव एव आत्मा, नाकाशादिरिति, अथवा जन्ममरणसुखदुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयमिति । इह च सूत्रेषु कथञ्चिदित्यनु. स्मरणीयं, कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्था निबन्धनत्वात् । उक्तञ्च
"स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः । लोकद्वितयभाविन्यो, नैव साङ्गत्यमियति ॥१॥ तथा
Jain Education Inter
n al
For Private & Personal Use Only
Alw.jainelibrary.org